३५० विशिष्टाद्वैतांसद्धः [ ३७ : ४० किञ्चिद्भाषितुमनाः तत्करोति । भगवद्रामानुजकुलाद् गृहीतया भिक्षया ऋतुप्यन् श्रीशङ्करकुलादपि भूयो महीतुं प्रवृत्तः “छान्दोग्यबृहदारण्यकशाखयोः पर्जन्यपृथिवी- पुरुषयोषिदाख्यस्याग्निपञ्चकम्य वेद्यतया यत स्वरूपमाम्नातं तदुभय- त्रापि समानम् । अतोन विद्याभेदः ।" इत्याह । पूर्वन नामभेदाद भेदाशङ्का पञ्चाग्निविद्यायाम् । अत्र विद्याया नामग्रहणमपि विना रूप- भेदाभावान्न भेद इति वदति । क्रियत्सङ्गतम् ! व्याख्यातुः कौशलं नाल- मत्यन्तमनिपुणस्य मूलकारस्य दुर्भगतां छादवितुम् । उत्पत्तिशिष्टगु- गावरुद्धे कर्मरण गुणान्तरनिवेशो न भवतीति न्याय: आमिक्षावाक्ये व्युत्पादितः । श्रमिक्षावरुद्धे वैश्वदेवयागे वाजिभ्यो वाजिनमिति वाक्यान्तरबिहितं वाजिनं न निविशत इति । श्रीकण्ठस्तु सर्वत्र प्रसिद्धि- सूत्रे ‘यथा विश्वेदेवावरुद्धायामामिक्षायां वाजिनां न निवेशः' इत्याह ! अबद्धमिदं क्लेशेनापि समर्थयितुमशक्यमिति पश्यन् दीक्षितः अन किञ्चिदुवाच । स्वयं तु वाजिनामनिवेशमेवोक्त्वा प्रकृतमर्थं सङ्गमया- मास । श्रीभाष्यकारप्रभृतयः यद्यपि विशिष्ट मेकमौर्पानिपदं तत्त्वमिति अस कृद् ब्रवते तथाप्यस्य दर्शनस्य विशिष्टाद्वैतमिति नाम श्रीमन्निगमान्त- महादेशिक कालावधि न प्रसिद्धम् । अप्रसिद्धग्रन्थकारेषु यः कश्चित् एवं व्यवहृतवान् कामं भवेन् । तथापि दर्शनस्य नाम तदवधि नैवं प्रसि द्धम् । श्रीकण्ठः पुनः प्रसिद्धं तन्नाम कृत्वा असकृत् तथा स्वसिद्धान्तं व्यवहरन् नवनम्य स्वोपज्ञस्य विशिष्टाद्वैतम्य प्राचीनाद् व्यावृत्तय शिवपदं घटयित्वा 'विशिष्टांशवाद्वैतं' इति स्वसिद्धान्तमाचष्टे ( भोक्ता- पत्त्यधिकरणे ) | यथावन्नावगच्छति चायं श्रीमद्भाष्ये प्रतिष्ठापितं विशिष्टाद्वैतम् ! 'अधिकं तु भेदनिर्देशात्' इत्यस्मिन् सूत्रे अयं लिखति - -
पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/४५३
दिखावट