पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

३०

पुरूरवस आयुः । आयुषो नहुषः। नहुषस्य ययातिरिति (आ. प. ६३) "पुरूरवास्तत्र विद्वानिलायां समपद्यत । सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम् । त्रयोदशसमुद्रस्य द्वीपानश्नन् पुरूरवाः । अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः ॥ विप्रैः सह विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः। जहार च स विप्राणां रत्नान्युत्क्रोशतामपि । सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह। अनुदर्श ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ । ततो महर्षिभिः क्रुद्धः सद्यः शप्तो व्यनश्यत । लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः । स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट् । आनिनाय क्रियार्थेऽग्नीन् यथावद्विदितां स्त्रिधा। षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः । दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुता इति ॥ (आ. प. ६९).

 किन्तु विष्णुपुराणे कथेयं स्पष्टतया प्रतिपादिता-यथा मैत्रेय उवाच-सूर्यस्य वंश्या भगवन् कथिता भवता मम । सोमस्याप्यखिलान् वंश्यान् श्रोतुमिच्छामि पार्थिवान् । कीर्त्यते स्थिरकीर्तीनां येषामद्यापि सन्ततिः । प्रसादसुमुखस्तान्मे ब्रह्मनाख्यातुमर्हसि । पराशर उवाच-श्रूयतां मुनिशार्दूल वंशः प्रथिततेजसः । सोमस्यानुक्रमात्ख्या ता यत्रोर्वीपतयोऽभवन् । अयं हि वंशोऽतिबलपराक्रमद्युतिशीलचेष्टावद्भिरतिगुणान्वितैर्नहुषययातिकार्तवीर्यार्जुनादिभिर्भूपालैरलङ्कृतः तमहं कथयामि श्रूयताम् । अखिलजगत्स्रष्टुर्भगवतो नारायणस्य नाभिसरोजसमुद्भवाब्जयोनेर्ब्रह्मणः पुत्रोऽत्रिः । अत्रेः सोमः। तं च भगवानब्जयोनिः अशेषौषधिद्विजनक्षत्राणामाधिपत्येऽभ्यषेचयत् । स च राजसूयमकरोत् । तत्प्रभावादत्युत्कृष्टाधिपत्याधिष्ठातृत्वाच्चैनं मद आविवेश । मदावलेपाच्च सकलदेवगुरोः बृहस्पतेस्तारां नाम पत्नीं जहार । बहुशश्च बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानस्सकलैश्च देवर्षिभिर्याच्यमानोऽपि न मुमोच । तस्य चन्द्रस्य च बृहस्पतेर्द्वेषादुशनाः पार्ष्णिग्राहोऽभूत् । अंगिरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः साहाय्यमकरोत् । यतश्चोशनः ततो जंभकुम्भाद्याः समस्ता एव दैत्यदानवनिकाया महान्तमुद्यमं चक्रुः । बृहस्पतेरपि सकलदेवसैन्ययुतः सहायः शक्रोऽभवत् । एवं च तयोरतीवोग्रसंग्रामस्तारानिमित्तस्तारकामयो नामाभूत् । ततश्च समस्तशस्त्राण्यसुरेषु रुद्रपुरोगमा देवाः, देवेषु चाशेषदानवा मुमुचुः। एवं देवासुराहवसंक्षोभक्षुब्धहृदयम् अशेषमेव जगद्ब्रह्माणं शरणं जगाम । ततश्च भगवानब्जयोनिरप्युशनसं शंकरमसुरान्देवांश्च निवार्य बृहस्पतये तारामदापयत् । तां चांतःप्रसवामवलोक्य बृहस्पतिरप्याह । नैष मम क्षेत्रे भवत्याऽन्यस्य सुतो धार्यस्समुत्सृजैनमलमलमतिधार्ष्ट्येनेति । सा च तेनैवमुक्तातिपतिव्रता भर्तृवचनानन्तरं तमिषीकास्तम्बे गर्भमुत्ससर्ज । स चोत्सृष्टमात्र एवातितेजसा देवानां तेजांस्याचिक्षेप। बृहस्पतिमिंदुं च तस्य कुमारस्यातिचारुतया साभिलाषी दृष्ट्वा देवास्समुत्पन्नसन्देहास्तारां पप्रच्छुः । सत्यं कथयास्माकमतिसुभगे सोमस्याथवा बृहस्पतेरयं पुत्र इति । एवं तैरुक्ता सा तारा ह्रिया किंचिन्नोवाच बहुशोप्यभिहिता यदासौ देवेभ्यो नाचचक्षे ततस्स कुमारस्तां शप्तुमुद्यतः प्राह । दुष्टेम्ब कस्मान्मम तातं नाख्यासि । अद्यैव ते व्यलीकलज्जावत्यास्तथा शास्तिमहं करोमि यथा च नैवमद्याप्यतिमन्थरवचना भविष्यसीति । अथाह भगवान् पितामहः तं