(इति ककुभेन षडुपभङ्गा)
( अनन्तरे द्विपदिकया दिशोऽवलोक्य)
पिअकरिणीविच्छोइअओ गुरुसोआणलदीविअओ। |
- (सकरुणम्) हा धिक् कष्टम् !
मेघश्यामा दिशो दृष्ट्वा मानसोत्सुकचेतसा । |
भवतु । यावदेते मानसोत्सुकाः पतत्रिणः सरसोऽस्मान्नोत्पतन्ति तावदेतेभ्यः प्रियाप्रवृत्तिरवगमयितव्या (वलन्तिकयोऽपसृत्य)
यस्य सः,प्रसृतो यः गुरुरसह्यः तापः पीडा तेन दीप्तं सन्तप्तमङ्गं यस्य सः, अधिकं अत्यन्तं दूनं पीडितं मानसं मनः यस्य तादृशः, दरीं गतः पर्वते संचरन् गजेन्द्रः कानने वने परिभ्रमति । इत्यनेन द्विपव्यपदेशेन स्वावस्थां वर्णयति ॥२८॥ इति उपर्युक्तप्रकारेण ककुभेन रागेण षड्डपभङ्गा षडवच्छेदा षट्चरणा वा गीतिः समाप्ता । ककुभस्तु "मध्यमापञ्चमीधैवत्युद्भवः ककुभो भवेत् । धांशग्रहः पञ्चमान्तो धेवतादिकमूर्च्छनः। प्रसन्नमध्यारोहिभ्यां करुणे यमदैवतः । गेयः शरदि" इति भरताचार्योक्तलक्षणम् । (अनन्तरे द्विपदिकाख्यगीत्या दिशोऽवलोक्याह)-
उन्मादातिशयात् पुनस्तामेवावस्थां वर्णयति-
प्रियेति-प्रियकरिण्या प्रियतमया वियुक्तो विरहितः गुरुणा तीव्रेण शोकानलेन दीप्तः संतप्तः बाष्पजलेन आकुले विहतगतिलोचने यस्य सः समाकुलः करिवरो गजेन्द्रो भ्रमति । अत्र शोकस्यानलेन तादात्म्यात् रूपकम् ॥ २९ ॥
(सकरुणम् सशोकम् ) हा धिक् कष्टम् कष्टम् ।
मेघश्यामेति - मेधैः श्यामाः कृष्णाः दिशो दृष्ट्वा विलोक्य मानससरोवरे उत्सुकं चेतः यस्य तेन मानससरोवरं जिगमिषुणा राजहंसेन कूजितं इदं श्रूयते, नूपुराणां शिञ्जितम् स्वनं न । नूपुरसदृशस्वनश्रवणेन राज्ञस्ततः प्रवृत्तिपूर्वकं किञ्चित् समाश्वासनमभवत् किन्तु मानसाय लालायितमानसो हंसः कूजितवान् तेन भृशं हतधैर्यो राजा कष्टत्वमाप्तः । इयं तु राजहंसानां प्रकृतिर्यत्ते प्रारब्धासु वर्षासु मानसकासारं प्रति गच्छन्ति । अनुष्टुब् वृत्तम् ॥ ३०॥
भवतु अस्तु राजहंसविरुतं तन्न तु नूपुररवः । यावता कालेन एते मानससरोवरायोत्सुका उत्कण्ठिता पतत्रिणः राजहंसाख्याः पक्षिणः अस्मादत्रस्थात् सरसः नोत्पतन्ति नोड्डयन्ते तावता कालेन एतेभ्यः विहङ्गमेभ्यः प्रियायाः प्रवृत्तिरुदन्त
१६ विक्र०