पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१५

कालेन धनुरानीयते तत्पूर्वमेव विहगाधमः नयनागोचरतां गतः । तं पक्षिणं तादृशं परिज्ञाय राजा कञ्चुकिनमाज्ञापयति, उच्यतां मदाज्ञया यत् सर्वैः नागरिकैरद्य सायं विचेतव्यः स विहगाधम इति । कुत्रापि पलायितः स रत्नपाटच्चरो भवतः शासनात् कथं मोक्ष्यते इति राज्ञः महिमानं ख्यापयन् विदूषकः राजानं सान्त्वयित्वोपवेष्टुं प्रार्थयति । राजा उपविशति मणेः प्रियया सह समागमकारकत्वेनोपबृंहितमूल्यवत्त्वं चोपवर्णयति । अत्रान्तरे सशरं मणिमादाय जयघोषपुरःसरं कञ्चुकी प्रविशति । मणिं तत्र दृष्ट्वा सर्वे विस्मयं नाटयन्ति । राजा च मणिं तं प्रक्षाल्य कोषपेट्टके स्थापयितुं आज्ञापयति । राजा च पुरःस्थं कञ्चुकिनं पृच्छति, कस्यायं बाण इति । कञ्चुकी वार्धक्यात् दृष्टेः दुर्बलत्वात् वर्णविभावनेऽसामर्थ्यं निजं प्रकाशयति । ततश्च राजा स्वयं नामाक्षराणि "उर्वशीसम्भवस्यायमैलसूनोर्धनुष्मतः। कुमारस्यायुषो बाणः संहर्ता द्विषदायुषाम्" इति श्रावयति । विदूषकश्च राज्ञः सन्तानवार्तां निशम्य हर्षपरिप्लुतः राजानमभिनन्दयति । राजा च सस्मितोऽपि कथमेतदिति विस्मितः सन् आह-अहं तु उर्वश्या वियुक्त एवासम् , न चाहं तां मम पत्नीमन्तर्वत्नीं सहयोगकालेऽपि कदाप्यपश्यम्, कुत एव प्रसूतिः इति । अनुचितं हि अमानुष्यां तस्यां मानुषीसदृशव्यवहारारोपणम् इति विदूषको राजानं भणति । भवतु नाम यथाह भवान् किन्तु मत्तः पुत्रस्य गोपने तत्रभवत्याः किं कारणम् इति राज्ञा पृष्टो विदूषकः वृद्धां मां राजा परिहरिष्यतीति मत्वा संवृतः पुत्र इति सोपहासं उत्तरं ददाति । अत्रान्तरे प्रविश्य कञ्चुकी "च्यवनाश्रमात्कुमारं गृहीत्वा तापसी देवं द्रष्टुं संप्राप्तेति विज्ञाप्य प्रवेशयितुं लब्धसम्मतिः तापसीसहितं कुमारमादाय प्रविष्टः । सुकुमारं जितमारं कुमारं तं दृष्ट्वा विदूषकः “यस्य नाम्ना अङ्कितो बाणः स एवायं क्षत्रकुमारः, भवत्सदृक्षतैवात्र प्रमाणं" इति राजानं निवेदयति। सोऽपि नयनयोः सबाष्पत्वम्, मनसः प्रसादत्वम् , हृदयस्य वत्सलत्वम् , देहस्य सवेपथुत्वम् अनुभाव्य तथैव मनुते । कञ्चुकी च तापसीकुमारौ यथास्थानमुपवेशयति । राजा चोपसृत्य तापसीमभिवादयते । तापसी मङ्गलमाशंसती मनसि आयुषः राज्ञश्च औरसं संबन्धं समीचीनं विचारयन्ती, प्रकाशं कुमारं गुरुं प्रणन्तुमाह । कुमारः सबाष्पमञ्जलिं बध्द्वा प्रणमति । राजा च तमायुष्मन्तमाशंसन् कुमारकं हस्ते गृह्णाति, कुमारश्च स्पर्शं रूपयित्वा स्वगतमेव "वृद्धानामुत्सङ्गे एव वृद्धानां बालानां कीदृशोऽनिर्वचनीयः स्नेह" इति स्पर्शमात्रेण अनुभवन् विचिन्तयति । राजा च तापसीमागमनप्रयोजनं पृच्छति । तापसी चाह यत् एष दीर्घायुरायुर्जातमात्र एवं केनापि निमित्तेन मम हस्ते न्यासीकृतः । क्षत्रकुलोचितं चास्य जातकर्मादि संस्करणम् तत्रभवता च्यवनेन महर्षिणा विहितम् , गृहीतविद्यो धनुर्वेदे विनीतश्चायम् । अद्य पुष्पसमित्कुशनिमित्तम् ऋषिकुमारैः सह गतेनानेनाश्रमविरुद्धं गृहीतामिषः गृध्रः आश्रमपादपशिखरे निलीयमानो लक्ष्यीकृतो हतश्च । तदुपलब्धोदन्तेन मुनिनादिष्टाऽस्मि यदेनं न्यासं उर्वशीहस्ते निर्यातयेति ।" तदुर्वशीं प्रेक्षितुमिच्छामि इत्युक्त्वा आसने समासीना । राजा चोर्वशीमाह्वातुमादिशति । ततो राजा कुमारं लालयति । अत्रान्तर एव प्रविशत्युर्वशी कञ्चुकी च । उर्वशी प्रविश्यालोक्य