पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६
विक्रमोर्वशीये

 चित्रलेखा-जहा दे रोअदि । [यथा ते रोचते ।]

( उभे यथोक्तमनुतिष्ठतः)

 विदूषकः -भो ! चिन्तिदो मए दुल्लहप्पणइजणस्स समागमोवाओ। भोः! चिन्तितो मया दुर्लभप्रणयिजनस्य समागमोपायः।]

(राजा तूप्णीमास्ते)

 उर्वशी-का उण धण्णा इत्थिआ जा इमिणा पडिमुग्गमाणा अत्ताणअं विणोदेदि । [का पुनर्धन्या स्त्री या अनेन परिमृग्यमाणा आत्मानं विनोदयति ।]

 चित्रलेखा-झाणस्स किं बिलम्वीअदि ? [ध्यानाय किं विलम्ब्यते ?]


गन्तुमिच्छामीति भावः । अनेन नायिका नायकस्य आत्मानं प्रति कियत् प्रेमेति परीक्षितुमिच्छति । एतत्तु उत्तमनायिकाया लक्षणम् यतस्तया यः कोऽपि क्रियते प्रेमबन्धः स तु विचार्य क्रियते यन्मम प्रेमानुबन्धी स्वानुरूपो विद्यते न वायं ममालम्बनमिति । यस्या विद्यायाः प्रभावात् पुरुषः केनापि अलक्षितो भ्रमितुं, स्थातुं वा प्रभवति सा विद्या तिरस्करिणी नाम ।

 चित्रलेखा-यथा ते रोचते । यथा त्वमिच्छसि तथा कुरु । अत्र "रुच्यर्थानां प्रीयमाणः' इति रोचतेर्योगे चतुर्थी ।

(उभे उर्वशीचित्रलेखे यथोक्तं अनुतिष्ठतः कुर्वतः । पार्श्ववर्तिन्यौ भूत्वा नर्मसचिवेन सह किं विचार्यते राज्ञेति निभृतं शृणुतः।)

 विदूषकः-भो वयस्य ! मया दुर्लभप्रणयिजनस्य समागमोपायश्चिन्तितः। कथं दुर्लभमपि प्रीतिपात्रं वस्तु लभ्यं भवेत् तदुपायस्तु मया ज्ञातः।

 राजा तूष्णीमास्ते-राजा तु तस्या नितान्तं ध्याने मग्नः सन् किमुच्यते माणवकेनेत्यपि नावधारयते अत्र नान्दीगतस्थाणुपदेन इयमेव निश्चला परिस्थितिः सूचिता।

 उर्वशी -का सा स्त्री परमधन्या भवेत् या अनेन राज्ञा परिमृग्यमाणा अन्वेष्यमाणा विचार्यमाणा वा सती आत्मानं धन्यतां प्राप्तं विनोदयति ? का भवेत् सा पुनर्नारी या अनेन इत्थं चिन्त्यमाना सती स्वमात्मानं धन्यतां नयति रञ्जयति । धन्या पुण्यातिरेकशालिनी, प्रलोभिका वा, यदुक्तं- "रामा त्रिवर्गहेतुः स्त्री, धन्या योषित्प्रलोभिका" । प्रलोभिका तु रतिरूपा चित्ताकर्षकत्वात् ।

 चित्रलेखा -ध्यानाय किं विलम्ब्यते? त्वं दिव्या असि । सर्वं ध्यानवशेन ज्ञातुं प्रभवसि तदा का पुनः सा धन्या स्त्री या अनेन चिन्त्यते इति कथं न त्वं ध्यानविधिना तां परिज्ञातुं यतसे । किमर्थ विलम्बं करोषि ध्यानवशेन तस्याः परिज्ञाने इति भावः।