पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३३
प्रथमोऽङ्कः।

 राजा-सखे ! नायमवसरो मम शतक्रतुं द्रष्टुम् । अतस्त्वमेवात्रभवतीं प्रभोरन्तिकं प्रापय ।

 चित्ररथ: -यथा भवान्मन्यते । इत इतो भवत्यः ।

(सर्वाः प्रस्थिताः।)

 उर्वशी-(जनान्तिकम् ) हला चित्तलेहे, उवआरिणं राएसिं ण सक्कणोमि आमन्तेदुम् । ता तुमं एव्व मे मुहं होहि । [हला चित्रलेखे ! उपकारिणं राजर्षिं न शक्नोमि आमन्त्रयितुम् , तत् त्वमेव मे मुखं भव ।]

 चित्रलेखा-(राजानमुपेत्य) महाराअ ! उव्वसी विण्णवेदि---- महाराएण अव्भणुण्णादा इच्छामि पिअसहिं विअ महाराअस्स कित्तिं सुरलोअं णेदुम् । [ महाराज ! उर्वशी विज्ञापयति-महाराजेनाभ्यनुज्ञातेच्छामि प्रियसखीमिव महाराजस्य कीर्तिं सुरलोकं नेतुम् ।]


तु नितरां शोभते । भारविरपि अमुमेवार्थं विज्ञापयति "प्रशमाभरणं पराक्रमः" इति । अथवा विक्रमस्य महाराजस्य तदाख्यस्य नायकस्य निरभिमानित्वम् एव अलङ्कारः।

 राजा--सखे ! नायमवसरः शतक्रतुं द्रष्टुम् , नैष समयः इन्द्रदर्शनस्य । अतस्त्वमेव गत्वा एनामत्रभवती माननीयामुर्वशीं प्रभोरिन्द्रस्यान्तिकं समीपं प्रापय नय।

 चित्ररथ:-यथा भवान्मन्यते विचारयति तदेवोचितम् इति शेष: । अस्मिन् विषये भवन्तः प्रमाणम् इत्यर्थः । इयमुक्तिर्विक्रमं प्रति । इत इतो भवत्यः, आगम्यताम् इत्यर्थः । उक्तिरियमप्सरसः प्रति ।

(सर्वाः प्रस्थिताः चित्ररथसनाथाः सर्वा अप्सरसः स्वावासं प्रति प्रयाता इत्यर्थः।)

 उर्वशी-(जनान्तिकम्-एकान्ते अन्यान् वञ्चयित्वा परस्परालापः) यदुक्तं सागरे-“वञ्चयित्वैकमन्योन्यं द्वाभ्यां यत्खलु पठ्यते । जनान्तिकं तु तत्कार्यम् त्रिपताकेन पाणिना" अन्यानपवार्येत्यर्थः । हला सखि चित्रलेखे उपकारिणं प्रियकारिणं राजर्षिं राजसु श्रेष्ठं पुरूरवसम् आमन्त्रयितुं कृतज्ञतां प्रकाशयितुं गमनायाज्ञां च ग्रहीतुं न शक्नोमि असमर्थाऽस्मि । अतस्त्वमेव मम मुखं भूत्वा तमित्थं निवेदय । अत्र विहृतं नाम नायिकालङ्कारः, यदुक्तं दशरूपके “प्राप्तकालं न यद्भूयाद्व्रीडया विहृतं हि तत्" ।

 चित्रलेखा-(मद वचः पार गत्वा) महाराजेति सम्बोधनम् । उर्वशी विज्ञापयति निवेदयति-'महाराज ! श्रीमता अभ्यनुज्ञाता तत्र गमनाय अनुमोदिता चेत् भवतः कीर्तिं मम प्रियसखीमिव सुरलोकं देवेन्द्रपुरीं नेतुं कामय