wV V via કુટુ-વ , વો TH v সখী । * : ५c. छ। wit - w u i v T V vq *-3 e दुर्भाग्य से वह खड्ग एक छोटे धारा प्रवाह के समान मालवा के राजा भोज की राजधानी धारा नगरी को न छोड़ सका। अर्थात् अनेक बड़े २ राजाओं को जीत लेने पर भी छोटी सी धारा नगरी की जीतने से वह अपने को न रोक सका । निःशेषनिर्वासितराजहंसः खड्गेन बालाम्बुदमेचकेन । भोजक्षमाभृद्भुजपञ्जरेऽपि यः कीर्तिहंसीं विरसीचकार ॥&३॥ अन्वयः बालाम्बुदमेचकेन खड्गेन निःशेषनिर्वासितराजहंसः यः भोजक्षमाभृद्भुजपञ्जरे अपि कीर्तिहसीं विरसीचकार। व्याख्य बालाम्बुदः नूतनमेघो कृष्णवर्णमेघस्तद्वन्मेचकेन श्यामेन खड्गेन कृपाणेन निश्शेषं यथा स्यात्तथा निर्वासिता स्वनिवासाद्बहिः कृता राजहंसा राजानो हंसा इवेति राजहंसा राजश्रेष्ठा पक्षे मानसं प्रापिता राजहंसपक्षिणो येन सः । य अाहवमल्लदेवो नाम राजा भोजनामा क्षमाभूद्राजा तस्य भुजः पञ्जर इव तस्मिन् सर्वसुखसामग्रीनिधानेऽपि कीर्तिरूपिणीं हंसीं पलिवियोगाद्विरसीचकार दु:खसागरनिमग्नां चकार। भोजराज कीर्तिरपि निराधारा सती दु:खिता जाता । वर्षा काले मानसं यान्ति हंसा इति प्रसिद्ध्यनुरोधान्मेघान्विलोक्य हंसाः स्वस्थानं त्यजन्ति मानसञ्च गच्छन्ति । बालाम्बुदेन खड्गस्य सादृश्यादुपमा । राजसु राजहंसपक्षिणामभेदारोपात्कीतौ हँस्या अभेदारोपाइड्रोजराजभुजे पञ्जराभेदारोपाच्च सावयवरूपकम् । Apçooroo
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/96
दिखावट