राजानस्तेषां कीर्तिधारां यश:प्रवाहरूपामुदारां महतीं धारां धारानगरीरूपां जलधारा कवलीचकार जग्राह । धाराशब्देनोभयार्थबोधात् श्लेषालङ्कारः । धाराकवलीकरणे प्रतापानलसन्निधानप्रयुक्तपिपासाधारणस्य हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । भाषा जिसकी तलवार ने राजा के तीव्र प्रताप रूपी अग्नि के पास रहने से मानी प्यासी होकर परमारवंश के राजाओं की कीर्ति की जलधारा रूपी उन्नत धारानगरी को जलधारा के समान पी लिया अर्थात् जीत लिया । अर्थात् पारमार वंशीय राजाओं की कीर्ति रूपी प्रसिद्ध राजधानी धारा नगरी को अपने हाथ कर लिया । श्रगाधपानीयनिमग्रभूरि-भूभृत्कुटुम्बोऽपि यदीयखड्गः । भाग्यक्षयान्मालवभर्तुरासीदेकां न धारां परिहर्तुमीशः ॥&२॥ अन्वयः अगाधपानीयनिमग्नभूरिभूभृत्कुटुम्बः अपि यदीयखड्गः भाग्यक्षयात् मालवभर्तुः एकां धारां परिहर्तुम् ईशः न श्रासीत् । व्याख्या अगाधेऽपरिमितेऽत्यन्तत्तीक्ष्णे च पानीये जले खङ्गधाराजले च निमग्नमन्तर्गतं नष्टं च भूरिभूभृतां बहुपर्वतानामनेकेषाञ्च राज्ञां कुटुम्बं समूहो वंशश्च यस्यैवं भतोऽपि यादीयखड्रो भाग्यक्षयाद्दौर्भाग्याद्धारानगर्या मालवभर्तुर्मालवाधीशस्य भोजस्यैकां केवलामद्वितीयां वा धारां जलधारां धारानगरी च परिहर्तु त्यक्तु क्षमस्समर्थो नाऽऽसीत् ॥ यथेन्द्रवज्त्रप्रहारभीताः पर्वताः समुद्रस्याऽगाधपानीये LDDLDuDuDu LuuuDuuDuLLLL HmLLLuD u uLLLDDD uDDBS DuDDLL DuuDDS
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/95
दिखावट