अन्वयः समरोत्सवेषु श्रगर्वः यः सुराणां नगरं यशोवतंसं कुर्वन् पुरन्दरस्य स्वहस्तेन न्यस्तां पारिजातस्रजं अप्राससाद । ठ्याख्या समरा रणा 'अस्त्रियां समरानीक-रणाः कलहविग्रही' इत्यमरः । एवोत्सवास्तेष्वगर्वो दर्परहितो यो जयसिहदेवः सुराणां देवानां नगरममरावतीसंज्ञकं यश एवावतंसः शिरोभूषणं यस्य ‘उत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे” इत्यमरः । तम् कुर्वन् सम्पादयन्, स्वर्गपर्यन्तं यशोविस्तृतमिति भावः । पुरन्दरस्येन्द्रस्य स्वहस्तेन निजकरेण न्यस्तां परिधापितां पारिजातस्य देवपुष्पविशेषस्य स्रजं मालामाससाद प्राप्तवान् । भाषा युद्ध रूपी उत्सवों में निरभिमानी, देवों की नगरी अमरावती को अपने यश रूपी शिरोभूषण से सुशोभित करने वाले अर्थात् अपर्ने यश का मुख्य स्थान बनाने वाले राजा ने इन्द्र द्वारा अपने हाथ से पहिनाई हुई पारिजात पुष्प की माला प्राप्त की । इतः परं सर्गान्तमाहवमल्लदेवनामकं राजानं वर्णयतितस्मादभूदाहवमल्लदेवखैलोक्यमल्लापरनामधेयः । यन्मण्डलाग्रं न मुमोच लक्ष्मीर्धाराजलोत्था जलमानुषीव ॥८७॥
- तस्मात् यन्मण्डलाग्रं धाराजलोत्था लक्ष्मीः जलमानुषी इव न मुमोच
wr (UEFTA:) ਜਸਰਲਸ srrerzTOrzàro er