: प्रभातेपु इव संयुगेषु यस्य प्रतापभानौ प्रतिष्ठाँ भजति (सति) सूर्योप लानाम् इव केषां पार्थिवानां तापः न प्रकटीबभूव । व्याख्य प्रभातेषु प्रत्यूषेषु ‘प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि प्रभातं' चेत्यमरः । इव संयुगेषु युद्धेषु यस्य राज्ञो जर्यासहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन् प्रतिष्ठां भजति विद्योतमाने सति सूर्योपलानामिव सूर्यकान्तमणीनामिव केषां पार्थिवानां विपक्षिनृपाणां तापस्सन्तापः संज्वलनं न प्रकटीबभूव किन्तु समेषां विपक्षिणा सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपादूपकम् । प्रभात संयुगयोः सूर्योपलपाथवयोश्चोपमा । केषां न प्रकटीबभूवेत्यर्थापतिश्चेति परस्परसापेक्षत्वादेतेषां सङ्करः । भाषा प्रातः काल के सदृश युद्ध में, सूर्य के सदृश उस राजा जयसिंहदेव के प्रताप के विद्यमान होने पर सूर्य मणियों के समान किन राजाओं में सन्ताप प्रकट न हुवा । अर्थात् सव राजा इसके प्रताप से सन्तप्त हो गये । यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । ग्राद्रव्रणाधिष्ठितपृष्ट्रपीठ-मकर्मठं कूर्मपतिं चकार ॥८२॥ अव्यः यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री आर्द्रब्रणाधिष्ठितपृष्ठपीठ कूर्मपति अकर्मठ चकार।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/88
दिखावट