sy wa · w * Y Trw = w. • व्याख्या तस्मात् राज्ञः क्रमेण क्रमशः क्षमां पृथ्वीं बिभ्रतीतिक्ष्माभृतो राजानः पर्वताश्च तेषां कुलानि वंशाः समूहाश्च तेषामुपरि प्रतिष्ठां सर्वातिशायिनीं स्थितिमवाप्य लब्ध्वा रत्नानामाकरस्य निधेः पक्षे समुद्रस्य भोगे सुखानुभवे पक्षे संयोगे योग्य: समर्थो वंशः कुलं शौरेविष्णोः पदाच्चरणाद्गाङ्गो गङ्गासम्बन्धी प्रवाह इव उदियायोदितोऽभूत् । यथा शौरेः पदात् गाङ्गः प्रवाहः पर्वतानामुपरि स्थिति लब्ध्वा रत्नाकरसङ्गमयोग्य उदेति तथैव तस्माद्राज्ञ: पार्थिवानामुपरि स्थानं लब्ध्वा रत्ननिधेर्भोगे समर्थो वंश उदियायेति भावः । अत्र पूर्णोपमालङ्कारः । भाषा उस राजा से, अन्य राजकुलों से अधिक कीर्तिशाली, रत्नों के खजानों का उपभोग करने के योग्य, विष्णु के चरण से पर्वत समूहों पर अपना स्थान बनाता हुआ, समुद्र से जा मिलने में समर्थ गङ्गाप्रवाह के समान, एक वंश आगे चल पड़ा । विपत्रवीराद्भुतकीर्तिहारी हारीत इत्यादिपुमान्स यत्र । मानव्यनामा च बभूव मानी मानव्ययं यः कृतवानरीणाम् ॥५८॥ श्रान्वयः यत्र विपक्षाद्भुतकीर्तिहारी हारीतः इति अञ्ादिपुमान् बभूव । यः श्ररीणां मानव्ययं कृतवान् सः मानी मानव्यनामा च बभूव । व्याख्या
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/74
दिखावट