सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/6

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महता परिश्रमेण सम्पाद्य मुद्रतः सवषामवाऽस्मदादाना प्रशसास्पदम् । परञ्च यत्र कुत्रचित्पाठभेदविचारे कार्यसम्पादनरभसादन्यकारणाद्वाऽत्र पाठभेदनिर्णये स्खलनं वरीवति । तत्तस्थानान्युत्सृज्य सर्वत्रैवाऽस्मिन्पुस्तकेऽस्यैव पुस्तकस्य पाठक्रमः स्वीकृतः । श्रीनागरमहोदयैर्जेसलमेरवृहज्ज्ञानकोषभाण्डारस्थाद्धस्तलिखितात्पुस्तकात् महता श्रमेण टिप्पणीसंग्रहं कृत्वा चरितचन्द्रिका नाम्ना सा परिशिष्टरूपेण स्वपुस्तके संगृहीता, केनाऽपि कविरहस्यकुशलेनैव धीमतैषा गुम्फितेत्यत्र नाऽस्ति सन्देहलेशावसरः । ईशवीय १२८६ वर्षतोऽपि प्राचीनेऽस्मिन् हस्तलिखिते पुस्तके टिप्पण्येषा स्वप्राचीनत्वं प्रकटयत्येव । कुत्रचित् 'अस्य शब्दस्यार्थागमी न जायते" इति स्पष्ट लिखित्वा टिप्पणीकृता विदुषा निरहङ्कारं स्वपाण्डित्यं परिचायितम्। गुणिनी न दुराग्रहा। इति स्वगुणित्वमपि प्रकटितम्। टीकाया अभावेऽर्थावबोधविषये टिप्पण्येषा बहुषु स्थलेषु विदुषां पाठकानामतीवोकारिणीति निश्चप्रचम् । बहुपु संस्कृतविद्यालयेपु विश्वविद्यालयेषु चैतत्पुस्तक पाठ्यपुस्तकत्वेन निर्धारितमपि न कुत्राऽप्याऽऽपणे लभ्यमिति हेतोहिंन्दूविश्वविद्यालयीय-संस्कृतसाहित्यानुसन्धानसमित्याऽ (The Samskrit Sahitya Research Committee, B. H. U.) स्य महाकाव्यस्य प्रकाशनं नितान्तमावश्यको मत्वा मयि तत्सम्पादनभारस्समारोपितः । कठिनमप्येतत्कार्यं विघ्नपरम्परामनुभवताऽपि मया साहित्यव्याकरणाचार्य-एम्. ए.-पदवीविभूषितानां सम्प्रति हिन्दू विश्वविद्यालयीय-संस्कृत महाविद्यालये साहित्यविभागाध्यक्षपदं भूषयतां श्री पं. रामकुवेरमालवीयानां हार्दिकसाहाय्येन श्री जगज्जननीसंकष्टहरणीकृपयैव संस्कृतव्याख्याभापाटीकाभ्यां सहितं सप्तसर्गान्तमेतन्महाकाव्यं सम्पाद्य प्रकाश्य च विद्वत्करकमलेषु सादरं स्थाप्यते । पाठयपूस्तकत्वेन निर्धारितमेतन्महाकाव्यं टीकाभूषितञ्चेत परीक्षार्थिना