, ויודי ו\ יו יי •א ייו ו\ דגל ידי x וץ ו\ יד ווי ציוד , ויו" ו 1- \ 1 ) דיוס ,וא 1 ו v1 ו 1יו ו\1< रास्ते में लगातार कुछ ही डेरे डालते हुए, आ मिलेंगे । गाहतेऽत्र धृतकार्मुके त्वयि प्रीतिदानमपि भीतिदानताम् । तेन तस्य महती विलक्षता यत्र वेत्सि गुणपक्षपातिताम् ॥५८॥ अन्वयः अत्र धृतकामुके त्वयि प्रीतिदानम् अपि भीतिदानतां गाहते तेन यत्र गुएपक्षपातितां वेत्सि तस्य महती विलक्षता । व्याख्या अत्राऽस्मिन् चोलराजप्रधाननगर्या धृतं गृहीतं कार्मुकं धनुर्येन स तस्मिन् सज्जधनुषि त्वयि विक्रमाङ्कदेवे प्रीत्या प्रेम्णा दानं कन्यायाः प्रदानमपि भीत्या भयेन दान तस्य भावस्तां भीतिदानतां भयजन्यदानत्वं गाहते प्राप्नोति । सज्जधनुषाय तुभ्यं यत्प्रीतिपूर्वकमपि दास्यते तद्भयेन दत्तमिति सर्वेषां ज्ञानं भवेदिति भावः । तेन कारणेन यत्र यस्य द्राविडराजस्य विषये गुणेषु तदीयेषु गुणेषु सौजन्यादिषु यस्ते पक्षपातस्समादरस्तस्य भावो गुणपक्षपातिता तां वेत्सि जानासि धारयसीत्यर्थ: । तस्य द्राविडाधिपस्य महती विपुला विलक्षता सलज्जत्वम् । अथवा तं प्रति सर्वेषां विस्मयान्वितत्वं यदेवं शौर्ययुक्तोऽपि भयात् कन्यां ददातीति । ‘विलक्षो विस्मयान्विते' इत्यमरः । त्वद्भयात्तेन कन्या प्रदत्तेति तस्य महदपयशस्तेन यस्य कृते तव गुणपक्षपातित्वं वर्तते स लज्जास्पदं भा भूयादिति हेतोः सीमान्तप्रान्त एव तव दर्शनं वरमिति भावः । भाषा उस द्राविड राजा के राज्य की प्रधान नगरी में धनुष लेकर (अपनी ਜਾ ਕੇ ਧਲ) . ਸ . . ਸ . . ਸਦੀ
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/333
दिखावट