निर्मदत्वमुपयान्ति हन्त ते ज्यारवैः करटिनो दिशामपि । कश्मलैः परिहृता इवालिभिर्यद्भजन्ति ककुभः प्रसन्नताम् ॥३५॥ अव्यः ते ज्यारवैः दिशां करटिनः अपि हृन्त निर्मदत्वम् उपयान्ति । यत् अलिभिः इव कश्मलैः परिहृताः ककुभः प्रसन्नतां भजन्ति । লতান্তিয়া ते तव विक्रमाङ्कदेवस्य ज्याया मौव्या रवाः स्वनास्तैज्र्यारवैः शिञ्जिनीनिर्घोषैः ‘मौवीं ज्या शिञ्जिनी गुणः' इत्यमरः ॥ दिशां ककुभां करटिनो गजा अपि दिग्गजा अपीत्यर्थ:। हन्तेति हर्ष, 'हन्त दानेऽनुकम्पायां वाक्यारम्भविषादयोः । निश्चये च प्रमोदे च' इत्यमरः । निर्मदत्वं भयेन मदराहित्यमुपयान्ति प्राप्नुबन्ति । ते ज्यारवं श्रुत्वा दिग्गजाः स्वाहंकारं परिहृत्य भीतास्सन्तो मदरहिता भवन्तीति भावः । यद्यस्मात्कारणादलिभिरिव भ्रमरैरिव कश्मलैर्मोहैः ‘मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्' इत्यमरः । कुनृपकृतदुष्कर्मभिरित्यर्थः । परिहृता रहिता ककुभो दिशः प्रसन्नतां नैर्मल्यं भजन्ति समाश्रयन्ति ॥ कश्मलस्याऽलिभिस्साम्यादुपमा । भाषा यह कहते हर्ष होता है कि आप की प्रत्यञ्चा के शब्द को सुन कर दिग्गज भी भय से मद रहित हो जाते हैं। मद जल के न बहने से भ्रमरों के न आने के कारण, भ्रमर रूपी दुष्ट राजाओं के कुकृत्य स्वरूप कालिमा के दूर हो जाने Tr fæSrrri vrrrer a r Sirrsr á
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/318
दिखावट