सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/312

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वथः असी अविरत व्याघृतैः शिलीमुखैः पूर्वकल्पिर्त केरलक्षितिपचामचक्षुषां गण्डपालिषु अश्रुणः निवासम् अदर्शयत् । व्याख्य असौ विक्रमाङ्कदेवोऽविरतं निरन्तरं ‘सततेऽनारता श्रान्तसन्तताविरतानिशम्' इत्यमरः । व्यापूर्तस्संचालितैः शिली शल्यं मुखे येषां ते शिलीमुखा बाणास्तैः पूर्वं दिग्विजयकाल एव कल्पितं विहितं केरलदेशस्य टूावंकोरप्रान्तस्य क्षितिपो नृपस्तस्य वामचक्षुषां वामलोचनानां ‘कामिनी वामलोचना' इत्यमरः ॥ गण्डपालिषु कपोलस्थलेषु अश्रुणो बाष्पस्य निवासं स्थितिमदर्शयत्प्रकटयाञ्चकार । विक्रमाङ्कदेवबैभवं दृष्ट्वा स्मृतपूर्ववृत्तान्ताः केरलदेशमहिष्यः बाष्पाम्बूनि मुञ्चन्त्यो भूशमदूयन्तेति भावः । अत्र भूतार्थस्य प्रत्यक्षायमाणत्वोक्त्या भाविकं नामालङ्कारः । ‘‘अद्भुतस्य पदार्थस्य भूतस्याथ भविष्यतः ॥ यत्प्रत्यक्षायमाणत्यं तद्भाविकमुदाहृतम्' इति लक्षणात् । ST दिग्धिजय के समय में विक्रमाङ्गदेव के लगातार चलाए हुए बाणों से केरलदेश की रानियों के गालों पर पड़े हुए पहिले आसुओं को विक्रमाडू देव ने दिखाया । अर्थात् विक्रमाङ्कदेव के वैभव को देखकर, पूर्व वृतान्त का स्मरण होकर वे रानियां अाँसू गिराने लगीं और अत्यन्त दु:खित हुई। तं विभाव्य रभसादुपागतं त्माश्रुजङ्गमुपजातसाध्वसा। लोलवारिनिधिनीलकुंण्डला द्रविडक्षितिपभूरकम्पत ॥२८॥