व्याख्या जयकेशी नाम कोडूणदेशाधिपो गुर्जरदेशाधिपस्य जयसिंहसिद्धराजस्य मातामह एनं विक्रमाङ्कदेवमेत्य प्राप्य प्राथितादभिकाङक्षितादधिकं महत्तरं धनं वित्तमर्पयन्वितरन् सन् कोङ्कणदेशस्य प्रणयिन्यो ललनास्तासा मुखेन्दबो वदनचन्द्रास्तेषु हास एव चन्द्रिका कौमुदी 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । तां हास्यकौमुदीं निश्चलां स्थिरामकृत कृतवान् । धनप्रदानेनाऽऽक्रमणाभावात् कोङ्कणदेशीया नार्यश्चिराय सुप्रसन्नाः कृता इति भावः । अत्र रूपकालङ्कारः ॥ TET (गुर्जर देश के राजा जयसिंह सिद्धराज के मातामह), कोंकण देश के राजा जयकेशी ने विक्रमाङ्कदेव के सन्मुख उपस्थित होकर, मांगे हुए से अधिक धन देकर, कोंकण देश की नारियों के मुख रूपी चन्द्रमा की हास्य रूपी चांदनी को अचल कर दिया । अर्थात् वहाँ की स्त्रियाँ युद्ध न होने से चिरकाल के लिये प्रसन्न हो गई। आलुपेन्द्रमवदातविक्रमस्त्यक्तचापलमसाववर्धयत् । दीपयत्यविनयाग्रदूतिका कोपमप्रणतिरेव तादृशाम् ॥२६॥ अव्यः श्रवदातविक्रमः असौ त्यक्तचापलम् अलुपेन्द्रम् अवर्धयत् । अविघ्नयाग्रदूतिका अप्रणतिः एव तादृशाम् कोपं दीपयति । व्यरड्य अवदातो धवलो लोकोत्तरत्वेन विख्यात इत्यर्थ: । विक्रमः पराक्रमो यस्य स असाधारणपराक्रमोऽसौ विक्रमाङ्कदेवस्त्यक्तं दूरीकृतं चापलमौद्धत्यं येन तमविघ्नयासम्पक्त विनीत मित्यर्थः । आलपस्य देशविशेषस्येन्द्र राजानमालपदेशाधिपति
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/311
दिखावट