सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/298

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनयृपङ्कुशङ्क्तिः सः ष्राप्तम् अपि तद्वलुं सहसा न जघान् । अप्रतक्यभुजवीर्यशालिनः तथाविधाः सङ्कटे अपि श्रप्रगहनाः (भवन्ति) । व्याख्या अनय एवाऽनीतिरेव पङ्कः कर्दमस्तस्माच्छङ्कितः शङ्कायुक्तस्स विक्रमाङ्कदेवः प्राप्तं पशचादागतमपि तस्य सोमदेवस्य बलं सैन्यं तद्वलं ‘अनीकिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्' इत्यमरः । सहसा झटिति न जघान न संहृतवान् ॥ अप्रतक्र्यमचिन्त्यं भुजयोर्दोष्णोर्वीर्य पराक्रमस्तेन शलन्ते शोभन्त इत्यप्रतक्र्यभुजवीर्यशालिनोऽचिन्त्यभुजशक्तिशोभितास्तथाविधा विक्रमाङ्कदेवसदृशाः सङ्कष्टेप्यापत्तावप्यगहना निराकुला भवन्ति । अत्राप्यर्थान्तरन्यासोऽलङ्कारः । भाषा अनीति रूपी कीचड़ से शङ्कित विक्रमाङ्कदेव ने सेना के पास में आ जाने पर भी उसका संहार नहीं किया। क्योंकि कल्पनातीत भुजबल से शोभित विक्रमाड्रदेव जैसे लोग आपत्ति आजाने पर भी घबड़ाते नहीं। श्रन्तकः प्रतिभटक्षमाभृतां निर्दयप्रहणनोद्यतं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः ॥७॥ अन्वयः ततः पूतिभटक्षमाभृताम् अन्तकः सः निर्दयप्रहणनोद्यतं सैन्यं तन्मदद्विरदपादचूर्णित (सत्) एककवल। चकार। व्याख्या