सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/267

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावः । अत्रोत्तरार्धन पूर्वोक्तकमलसमाश्रयसमर्थनादर्थान्तरन्यासः । भाषा हे लक्ष्मी ! अब कमलों को ही फिर से अपना निवासस्थान बना। स्वामी के नाश का यह दुख कमलों के अतिरिक्त अन्य स्थान में रह कर सहन करना अत्यन्त कठिन है। अर्थात् पति विरह जनित सन्ताप को शान्त करने के लिये कमल जनित शैत्य ही लाभदायक हो सकता है। श्लाध्यं शेषफणाचक्र-विटङ्कात्पतनं भुवः । श्रथवा स्नेहपाण्डित्यं मृत्पिण्डस्येदृशं कुतः ।।८०।। अन्यः भुवः शेषफणाचक्रविटङ्कात् पतनं श्लाध्यम् । श्रप्रथवा मृत्पिण्डस्य ईदृश स्नेहपाण्डित्य कुतः (सम्भवति) । व्याख्या भुवः पृथिव्याः पतिविनाशे शेषस्याऽनन्तसर्पराजस्य ‘शेषोऽनन्तो वासुकिस्तु' इत्यमरः। फणानां स्फटानां ‘स्फटायां तु फणा द्वयोः' इत्यमरः । चक्र समूह एव विटडूमुच्चशिखरं 'कपोतपालिकायां तु विष्टडू पुंनपुंसकम्' इत्यमरः । तस्मात्पतनं पतनेन मरणं श्लाध्यं वरम् । अथवा पक्षान्तरे मृत्पिण्डस्य मृत्तिकाशरीरस्य ‘पिण्डो बोले बले सान्द्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिह्वकयोरपि' इति मेदिनी । ईदृशं विशिष्टं स्नेहः प्रेम तस्य पाण्डित्यं विचारप्राचुर्यं कुतः कस्माद्धेतोः सम्भवति नैव स्यादचेतनत्वादिति भावः । भाषा