भाषा राजकुमार विक्रमा डुदेव के वैसे रोने से यमराज के पिता सूर्य भी, उसके पिता के सदृश धर्मात्माओं को जान से मार डालने का दुराचार का काम करने के नियमी, अपने पुत्र यमराज को सूर्यवंश का कलङ्क समझने लगे । एतद्दुःखानभिज्ञेभ्यो दिनेभ्यः स्पृहयन्मुहुः । दिवसोऽपि यथात्मानं मन्दभाग्यममन्यत ॥७२॥ अक्बय? यथा एतद्दुःखानभिज्ञेभ्यः दिनेभ्यः मुहुः स्पृहयन् दिवसः अपि अस्मानं मन्दभाग्यम् श्रप्रमन्यत । व्याख्या यथेति पदं पूर्वोक्तस्य तथा रुरोदेति वाक्यस्य तथा शब्देनाऽन्वेति । स तथा रुरोद यथा येन कारणेनैतद्दुःखान्याऽऽहवमल्लमूत्युजन्यराजकुमारविलापादिदुःखानि तेषामनभिज्ञा अपरिचितास्तेभ्यो दिनेभ्यो दिवसेभ्यो मुहुः पुनपुनः ' स्पृहयन्नभिलषन् दिवसोऽपि राजकुमारकृतविलापदिवसोऽप्यात्मानं स्वं मन्दभाग्यं हतभाग्यममन्यत मेने । अन्यदिवसा मत्तो भाग्यवन्तो यैरिदं महद्दुखं नाऽनुभूतमिति चिन्तयति स्मेति भावः । भाषा राजकुमार विक्रमाङ्गदेव के वैसे रोने से वह दिन भी, ऐसे क्लेश से अनभिज्ञ अन्य दिवसों के समान ही हम होते तो अच्छा था, ऐसी अभिलाषा करते हुए अपने की हतभाग्य समझने लगा ।
- विशेषकम्? त्रिभिः पद्यैर्यत्र वाक्यसमाप्तिर्भवति तद्विशेषकं