भूतस्तषा चालुक्यभूपालाना शुद्ध |ानमल कुल वश मम जन्म जनुः । `जनुजननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः ॥ कियत्यो बहुसंख्याताः शास्त्रार्थविप्रुषोऽपि शास्त्रार्थरूपजलविन्दवोऽपि “पृषन्ति बिन्दुपृषताः पुमाँसो विप्रुषः स्त्रियाम्' इत्यमरः । श्रोत्रेण कर्णेन सह मैत्रीं परिचयं गताः प्राप्ताः कर्णगोचरं गता इत्यर्थः ॥ श्रेष्ठचालुक्यवंशे जन्मना सह शास्त्रार्थोऽपि कर्णगोचरीकृत इति भावः ॥ भाषा चालुक्यवंशीय राजाओं के विशुद्ध कुल में मेरा जन्म हुआ है। शास्त्रार्थ के कितने ही छींटे मेरे कानों में पड़े हैं। अर्थात् शास्त्रार्थों का भी मैंने बहुत श्रवण किया है । जानामि करिकर्णान्त-चश्वल हतजीवितम्। मम नान्यत्र विश्वासः पार्वतीजीवितेश्वरात् ॥५८॥ अन्वयः (अह) हतजीवित करिकणीन्तचञ्चल जानामि । मम पार्वतीजीवितेश्चरात् श्रप्रन्यत्र विश्वासः न । व्याख्य अहं हतजीवितमाधमजीवनं करीणो हस्तिनः कर्णस्तस्याऽन्तः प्रान्तभागस्तद्वच्चञ्चलमस्थिरं जानामि वेद्मि । ‘क्षणभङगुराः प्राणाः' इति श्रुतेः । मम पार्वत्या गिरिजाया जीवितस्य जीवनस्येश्वरः शिवस्तस्मादन्यत्र स्थाने विश्वासो ममाऽऽस्था नाऽस्ति ॥ सत्यत्वस्य स्थिरत्वस्य नित्यत्वस्य वा सक्ता शिवं विहाय नाऽन्यत्र । अतः शिवसायुज्यप्राप्तिरेव मम मुख्यमुद्देश्यमिति भावः ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/254
दिखावट