नरेन्द्राणां विपक्षनृपाणां पुरन्ध्रयः कान्ता जलाद्रभिर्जलार्द्रव्यजनैः सह समतां तुल्यतां गतैः प्राप्तैविगलन्ति पतन्त्यश्रूणि नेत्रजलानि येभ्यस्तानि विगलदश्रूणि तैर्वस्त्रैर्वासोभिः ‘वस्त्रमाच्छादनं वासः' इत्यमरः । तस्य राजकुमारविक्रमाङ्कदेवस्य प्रतापं प्रभावमवोचन्त समूचुः । पतिविरहादसाह्यदुःखेन रोदनादश्रुष्परम्परयाऽऽर्द वस्त्रमेव तस्य कुमारस्य प्रतापं प्रकटयितुमलमिति भावः । अत्र विगलदश्रुबस्त्राणा जलाद्रभिस्साम्यप्रतिपादनादुपमालङ्कारः । भाषा विपक्षी राजाओं की स्त्रियाँ पानी से भिगाए हुए पंखों के समान अश्रुओं से अत्यधिक भींगे हुए अतएव अश्रुओं की बूदों को टपकाने वाले अपने वस्त्रों से उस राजकुमार के प्रताप को व्यक्त करती थीं। चोलान्तःपुरगेहेषु सिहाना तस्य बाहुना । लोललाङ्गलदण्डानां द्वाररक्षा समपिता ॥२५॥ अन्वयः तस्य बाहुना चोलान्तपुरगेहेषु द्वाररक्षा लोललाङ्गलदण्डानां सिंहानां समर्पिता। व्याख्या तस्य विक्रमाडूदेवस्य बाहुना भुजेन चोलस्य चोलदेशीयनृपस्याऽन्त:पुरगेहेष्ववरोधगृहेषु *स्छयगार भूभुजामन्तःपुरं स्यादवरोधनम् ॥ शुद्धान्तश्चावरो'धश्च' इत्यमरः । द्वाराणां रक्षा रक्षणभारो लोलाश्चञ्चला लाङगूला दण्डा इव पुच्छदण्डा येषां ते तेषां सिंहानां मृगेन्द्राणां कृते समर्पिता निहिता। शात्रनाशानन्तरं सर्वेष नगरस्थेषु पलायितेषु सत्सु रिक्तत्वात्तदन्तःपुरेषु सिहाः
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/234
दिखावट