सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/208

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या चालुक्यस्य चालुक्यवंशस्य रामे रामसदृशपराक्रमशालिनि तत्र कुमारे विक्रमाडूदेवे हरीणामश्वानां रामपक्षे कपीनां ‘यमानिलेन्द्रचन्द्रार्कविष्णुसंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । वाहिन्य: सेनास्ताभिः सह तटीं समुद्रवेलामागते प्राप्ते सति पयोधिः समुद्रः प्रादुर्भवन्ति समुद्भवन्ति मौक्तिकानि मुक्ता यासु ताश्शुक्तयो मुक्तास्फोटाः ‘मुक्तास्फोटः स्त्रियां शुक्तिः' इत्यमरः । तासां भङ्गया व्याजेन भयेन भीत्या दन्तान् रदान् ‘रदना दशना दन्ता रदा:' इत्यमरः । निश्चकर्षेव निष्कृष्टवानिव । भयभीता दन्तान् प्रदश्र्य क्षमायाचनं कुर्वन्ति तथैव शुक्तिव्याजेन दन्तान् प्रदश्र्य भयभीतस्समुद्रः क्षमायाचनमकरोदिति भावः । सापन्हवोत्प्रेक्षाऽलङ्कारः । भाषा चालुक्यवंशीय राम स्वरूप उस कुमार विक्रमाङ्कदेव के, घोड़े की पलटन के साथ, राम के पक्ष में-बन्दरों की सेना के साथ, समुद्र के किनारे आने पर मोतियों को उत्पन्न करने वाली (तट पर पड़ी हुई ) सीपों के मिष से मानों समुद्र ने भय से दांत चियार दिये। तस्मिन्प्रविष्ट मलयाद्रिकुञ्ज तद्वाहिनीकुञ्जरकर्णतालैः । वियोगिनीनामुपतापनाय चैत्रं विना चन्दनवायुरासीत् ॥६३॥ टप्रलयः तस्मिन् मलयाद्रिकुञ्ज प्रविप्टे सति तद्वाहिनीकुञ्जरकर्णतालैः वियोगिनीनाम् उपतापनाय चैत्रं विना चन्दनवायुः श्रासीत् ।