सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/205

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवोपदेशाद्वण्दर्शनाच स एव चित्ते नृपतेरुवास । wd d यथा स्तुतं रलपरीक्षकेण दृष्टप्रभावं च महाहरलम् ॥५८॥ 3 : सः एव देवोपदेशात् गुणदर्शनात् च नृपतेः चित्ते उवास । यथा रत्नपरीक्षकेण स्तुत दृष्टप्रभावं च महाहरत्नम्। व्याख्य स एव विक्रमाडूदेव एव देवोपदेशादाऽऽकाशवाण्याः श्रवणात् गुणदर्शनाद्विक्रमाडूदेवे शौर्यादिगुणानामनुभवाच्च नृपते राज्ञश्चित्ते मनसि 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । उवास स्थिति चकार । यथा रत्नपरीक्षकेण वैकटिकेन स्तुतं प्रशंसितं दृष्टोऽनुभूतः प्रभावः सामर्थ्यं यस्य तत् दृष्टप्रभावमनुभूतसामथ्र्यञ्च महार्हरत्नं महर्घ रत्नम् । वैकटिकेन प्रशंसितमनुभूतसामथ्यं च बहुमूल्यं रत्नं राज्ञो हृदये वक्षःस्थले धार्यते तथैवाऽऽकाशवाण्या, प्रशंसितोऽनुभूतगुणश्च विक्रमाङ्कदेवो राज्ञो हृदये स्थित इति भावः ॥ भाषा जौहरी द्वारा प्रशंसित और अनुभूत सामथ्र्य वाले बहुमूल्य रत्न के समान आकाशवाणी द्वारा प्रशंसित और अनुभव में आये हुए उसके गुणों से विक्रमाङ्क देव ने राजा आहवमल्ल के हृदय में स्थान प्राप्त कर लिया। अर्थात् जिस प्रकार जौहरी द्वारा प्रशंसित और अनुभव में आए हुए उसके सामथ्र्य से बहुमूल्य रत्न को राजा हृदय पर धारण कर लेता है वैसे ही आकाशवाणी से प्रशंसित और अनुभव में आए हुए उसके गुणों से विक्रमाङ्क देव ने राजा के हृदय में स्थान प्राप्त कर लिया ।