सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

LL i S LLLLLLLLS Li HiHe iiiiL LttSttCLLS LLLSL LC H S iii LLLL i iiiLtt AiLL SHG S सोमनाथान्निर्गत्य स दक्षिणदेशे चिरं बभ्राम । सेतुबन्धरामेश्वरदर्शनानन्तरं स कल्याणानगरं ययौ । तत्र लब्धविद्यापतिपदवीक: सः षष्ठ-विक्रमादित्यस्य चालुक्यवंशीयस्य सभां यावज्जीवं सम्भूषयति स्म। सर्वस्वं गृहवर्ति कुन्तलपतिगृह्वातु तन्मे पुनभण्डािगारमखण्डमेव हृदये जागर्ति सारस्वतम् । रे क्षुद्रास्त्यजत प्रमोदमचिरादेष्यन्ति मन्मन्दिरं हेलान्दोलितकर्णतालकरटिस्कन्धाधिरूढाः श्रियः ॥ १ ॥ अयि ! किमनिश राजद्वारे समुद्भुरकन्धरे कुवलयदलस्निग्धे मुग्धे विमुञ्चसि लोचने । अमररमणीलीलावल्गद्विलोचनवागुरा विषयपतितो न व्यावृत्ति करिष्यति विल्हणः ॥ २ ॥ उपर्युक्तं पद्यद्वयं काश्मीरासादित-चौरीसुरतपञ्चाशिकाग्रन्थे प्रारम्भ एवाऽस्ति । एताभ्यां पद्याभ्यां बिल्हणविक्रमादित्ययोः पूर्व कादाचित्क वैमनस्यं द्योत्यते । प्राचीनराजसभापण्डिताः स्वभावत एव नूतनमहापण्डितप्रवेशे विरोधिनी भवन्तीति नैतदसम्भवम् । श्री कृष्णम्माचारियरमहोदयस्त्वेतदेव वैमनस्यं पाश्चात्कालिकं विमृश्य महाकाव्यस्याऽस्याऽपूर्णत्वे कारणमिति कल्पयति । तन्मते खूष्टीये १०८५ वत्सरे विक्रमादित्यस्य नर्मदातटयात्राऽत्र न वणितेत्यस्याऽपूर्णत्वम् । परन्तु नैतन्महाकाव्यमपूर्णम् । खुष्टीय १०८५ वर्षीया घटना महाकाव्यरचनानन्तरभूतेति तस्या अत्र समावेशोऽसम्भवः । महाकाव्यं परिसमाप्यैवाऽन्तिमेऽष्टादशसर्गे महाकविना स्ववंशवर्णनं कृतमित्यपूर्णतायाः कल्पना निराधारैव । एवमेव ‘इण्डियन एण्टिक्वेरी' पत्रसंपादकस्य ‘बिल्हणः श्लेषालङ्कारस्य A - A fܚܦܝܠfبی ܬܝܚ paper-Arar ܬ