सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/181

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदुत्थितः साऽङ्गुलसग्रहण यात्काश्चदव्यक्तभवाचित॥५ ।। अभीक्ष्णमक्ष्णोः श्रवसोश्च तेन क्षमापतेः संवननं बभूव ॥८॥ 3 : यत् सः अङ्गुलिसंग्रहेण उत्थितः अपि यत् किञ्चित् अव्यक्तम् अवोचत तेन क्षमापतेः अक्ष्णोः श्रवसोः च अभीक्ष्णं संवननं बभूव । व्याख्य यद्यस्मात्कारणात् स बालकोऽन्येषां जनानामङगुलिसंग्रहेणाऽङगुलि धृत्वोत्थितः समुत्थानं कृतवान् ‘अङ्गुल्यः करशाखास्स्युः' इत्यमरः । अपि चाऽन्यच्च यत्किञ्चिदव्यक्तमस्पष्टमवोचत संजगाद तेन कारणेन क्षमायाः पतिः स्वामी तस्याऽवनिभर्तुः ‘क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु ।’ ‘धवः प्रियः पतिर्भर्ता' इत्यमरः । अक्ष्णोर्नयनयोः ‘लोचनं नयनं नेत्र मीक्षणं चक्षुरक्षिणी' इत्यमरः । श्रवसोश्च कर्णयोश्च ‘कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्ममरः । अभीक्ष्णं पुनः पुनः ‘मुहुः पुतः पुनः शश्वविभीक्ष्णमसकृत्समाः' इत्यमरः ॥ संवनन्नं वशीकरणं ‘वशक्रिया संवननं' इत्यमरः । अभूत् बभूव । तस्य बालस्योडीगुल संगृहयोत्थान दृष्ट्वा यत्किब्न्चिदस्पष्ट संभाषणञ्च श्रुत्वा राजा वशीकरणभन्त्राभिभूत इव जातः । सर्वं कार्यजातं त्यक्त्वा तदवलोकनश्रवणयोर्मग्न इति भावः । भाषा चूंकि यह बालक दूसरों की अंगुली पकड़ कर उठने लगा और साफ २ समझ में न आने वाले शब्दों को बोलने लगा इससे राजा की अॉखों व कानों का बार २ वशीकरण होता था । अर्थात् राजा सब कामों को छोड़ इस बालक की लीला देखने में ही परम मुदित होता था ।