सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अत्रैतिहासिकतत्वसंरक्षणपरा डा० बूह्वरादयो विपश्चिद्वरा विप्रवदन्ति'महाकविना बिल्हणेन स्वकृतावैतिहासिक तथ्यं वितथीकृतमिति' । वस्तुतस्त्वेतद्दूषणमापातत एव प्रतिभाति न तत्त्वदृष्टया । प्रकृतकृतिरितिहासमूलाऽपि काव्यमेव नेतिहासः । अत्र कविना प्राधान्येन प्रकाशनीयं कवित्वमेव, न त्वितिहासतत्त्वम् । यत्त्वत्रेतिहासतत्त्वं प्रकाशितं तदानुषङ्गिकत्वेन न प्रधानत्वेन । कल्पनाकाननसञ्चरणपराणामेतादृशानामेव कवीनां कृतिमुदिश्य— अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेद परिवर्तते । शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स चेत्कविर्वीतरागोनीरसं व्यक्तमेव तत् ॥ (अग्निपुराणो) एतादृश्युक्तिः समजनि । किं बहुना, महाकवीनामेतादृशां कृते स्वनायकस्य मर्यादासंरक्षणार्थमालङ्कारिकैः सुधीभिः स्तोकरूपा स्वतन्त्रताऽपि प्रदत्ता । यथा -सा साहित्पदार्पणे यत्स्यादनुचितं वृत्तं नायकस्य रसस्य वा । विरुद्ध तत्परित्याज्यमन्यथा वा प्रकल्पयेत्। इति । अतएव धीरोदातनायकेन श्रीरामचन्द्रण छद्मना वालिहननमनुचितमिति धिया महानुभूतिना भवभूतिना वीरचरिते रामवधार्थमायातो वाली रामेण व्यापादित इति प्रतिपादितम् । अपरञ्च, काव्यसाधितं वस्तु मिथ्यारूपमितिहासप्रकाशितमेव तथ्यमित्यत्र का नाम विनिगमना ? इतिहासवणितमपि वस्तु वितथं विलोक्यते । यथा वङ्गेतिहासे सिराजुद्दौलाभिधानेन वङ्गाधीशेन कृष्णHafreð (Black Hole of Calcutta.) äG- 3rsröTRIrfTIsrír flögfTi> च स्थानस्य सङकुचितत्वाद्वहुसंख्यका उपरता अल्पा एवाऽवशिष्टा इति यदितिहासे लिखितं तत्साम्प्रतं मिथ्यैवेति बहुभिविद्वद्भिः साधितम् । एवंविधे ਸ਼ਜ ਸਿੰ ਸਜੇ ਜਜਸ਼ਹਾਸ ਸਹਸ ਸt