सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/142

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्तस्मात्कारणात्प्रभूतो बहुलो भावो भक्तिभावो यस्य स एष अहं जितानि चशीकृतानीन्द्रियाणीन्द्रियसमूहो येन स वशीकृतेन्द्रियसमूहस्सन् त्वया सह भवत्या सह तावत्कालपर्यन्त तपसे तपश्चरणाय प्रयते महोद्योग करिष्ये यावत्काल विभावय रजन्याः ‘विभावरीतमस्विन्यौ रजनी यामिनी तमी' इत्यमरः । वल्लभः प्रियश्चन्द्रस्तस्य खण्ड एव कलैव मण्डनं भूषणं यस्य स जगतां भुवनानां *विष्टपं भुवनं जगत्' इत्यमरः । गुरुः श्रेष्ठः सः शंकरो दयां कृपामायाति प्राप्नोति । करुणार्द्रमानसस्सन्नभीष्टवरप्रदानं करोतीत्यर्थः । भाषा इसलिये दृढ़ भक्ति से युक्त, मैं तुम्हारे साथ इन्द्रियों को वश में करके अर्थात् संयम से तब तक तप करने में प्रयत्नशील रहूँगा जब तक अर्धचन्द्र से शोभित जगत्प्रभु शंकर को मेरे ऊपर दया न आजाए । विधाय शान्त्यै कलुषस्य कर्मणस्तदेष सर्वेन्द्रियतापनं तपः । नयामिभक्तयाभटिति प्रसन्नतामखण्डयाखण्डशशाङ्कशेखरम् ॥४२॥ अन्वयः तत् एषः (अहं) कलुषस्य कर्मणः शान्त्यै सर्वेन्द्रियतापनं तपः विधाय अखण्डया भतया खण्डशशाङ्कशेखर झटिति प्रसन्नतां नयामि । व्याख्या तत्तस्मात्कारणादेषोऽहं कलुषस्य दुष्कृतस्य ‘कलुषं वृजिनैनोऽघमंहो दुरितडुष्कृतम्' इत्यमरः । कर्मणः क्रियाकलापस्य शान्त्र्यं विनाशाय सर्वेन्द्रियाणां नेत्रादीनां तापनं पीडनं यस्मिन्तत्तपो दुष्करतपस्यां विधाय कृत्वाऽखण्डयाऽविच्छिन्नसन्तानया भक्त्या दृढभक्त्येत्यर्थः । खण्डश्चासौ शशाङ्कश्चन्द्रश्च सः शेखरं