W WM Y N v 8 4 øo VI - i v r. w Vi Y, u v v v - - ` ' ་་ ཅ་་་་་་་་་་་་་་་་་་་་་་་་་ इत्यनेन पद्येन वैदर्भीमेव रीतिं प्रशशंस । प्रस्तुतकृतौ कविः वैदर्भीमेव रीति प्रायेण समाललम्बे । अत्र परमरमणीयेन प्रकारेण स्वविनयवति स्वस्य चोपजीव्यनरपतौ निरतिशयां भक्तिञ्च द्योतयता महाकविना बिल्हणेनोक्तंगिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः । के वा न शुष्कां मृदमभ्रसिन्धुसम्बन्धिनों मूर्धनि धारयन्ति । (१-२८) एवञ्चाऽस्य महाकवेः श्रीहर्षोणाऽधस्तने पद्ये विशिष्टरूपेणाऽनुकरणं व्यधायि । 'पवित्रमत्राऽऽतनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा । कथं न सा मद्भगिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति। इति। (१-३) नैषधचरिते निम्नस्थपद्ये कविनिबद्धवक्तुराहवमल्लदेवस्यकिमश्वमेधप्रभृतिक्रियाक्रर्मः सुतोऽस्ति चेन्नोभयलोकबान्धवः । ऋणं पितृणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् ॥ (२-३४) इत्युक्तिः कीदृशी सहृदयहृदयावजिका, कालिदासनिबद्धवक्तुर्दिलीपस्य लोकान्तरसुर्ख पुण्यं तपोदानसमुद्धवम् । सन्ततिः. शुद्धवंश्या हि परत्रेह च शर्मणे ॥ (रघुवंशे १-६९) इति वचनं स्वप्रौढ़िप्रकर्षणाऽतिशेत इत्यत्र विपश्चिद्वरा एव प्रमाणम्। तस्यैवाऽऽहवमल्लदेवस्यात्मजायां प्रत्यात्मजोत्पादनमनूद्य अधीतवेदोऽस्मि कृतः श्रुतागमः श्रमोऽस्ति भूयानितिहासवत्र्मसु ॥ गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः ॥ (२-३९)
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/14
दिखावट