सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/122

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कल्पवृक्षाः परिदृश्यन्ते केनाऽपि हृताश्च नेति समुद्रात्स्वोत्कर्षे परिहासस्य बीजम् । अत्रोत्प्रेक्षालङ्कारो गम्यः । भाषा जिस कल्याणपुर का तालाब, तटपर के वृक्षों की परछांहीं पड़ने से अपन भीतर अनेक कल्पवृक्ष होने की शोभा दिखाता हुआ, देवताओं द्वारा कल्पवृक्ष निकाल लिए गए हुए समुद्र की मानों हँसी उड़ा रहा है। प्रतिक्षणं क्षालितमन्युना रणे प्रयुक्तरक्षस्य नृपेण मानिना । न यस्य कक्षां शतमन्युरक्षिता पुरी पुरप्राग्रहरस्य गाहते ॥११॥ अन्य: शतमन्युरक्षिता पुरी रणे प्रतिक्षणं क्षालितमन्युना मानिना नृपेण प्रयुक्तरक्षस्य पुरप्राग्रहरस्य यस्य कक्षा न गाहते । व्याख्या शतं मन्यवो क्रतवो कोपाश्च यस्य सः शतमन्युरिन्द्रः ‘मन्युर्दैन्ये क्रतौ क्रुधि ।।' इत्यमरः । ‘जिष्णुर्लेखर्षभः शक्रः शतमन्युदिवस्पतिः ॥' इत्यमरः ॥ तेन रक्षिता पालिता पुरी अमरावतीनगरी रणे युद्धे प्रतिक्षणं निरन्तरं क्षालितो दूरीकृतो मन्युः क्रोधो येन स तेन निर्मन्धुना क्रतुरहितेन वा मानिना सगर्वेण, ‘गर्वोभिमानोऽहङ्कारोमानश्चित्तसमुन्नतिः ।' इत्यमरः । नृपेण राज्ञाऽऽहवमल्ल~देवेन प्रयुक्ता कृता रक्षा यस्य तस्य पुराणां 'निर्धारणे षष्ठी' नगराणां मध्ये प्राग्रहरस्य श्रेष्ठस्य यस्य कल्याणपुरस्य कक्षा साम्यं न गाहते न प्राप्नोति । शतक्रतुकारिणा शतकोपकारिणा चेन्द्रेण यत्कार्यं क्रियते तत्कार्यमनेनाऽऽहवमल्लदेवराजेन निर्मन्युनैव यज्ञरहितेनाऽपि यज्ञानुष्ठानादिकं विनैव साध्यत इतिभावः ॥.