ન " ~' ' - Sન - ગાલવવા મારા: પુરાખાવૃતિસ્તત્પારાાળવામવમત્ર થત્ય વ काव्यस्य नूतनेतिहासस्तदैतिहासिकम् । एवञ्चाऽस्य विक्रमाङ्कदेवचरितस्य कथाभागो नूतनेतिहासाद्गृहीतस्तत एवेदं महाकाव्यमैतिहासिकमिति निर्विवादम् । संस्कृतसाहित्ये सत्स्वपि बहुष्वैतिहासिककाव्येषु पद्यकाव्ये विक्रमाडूदेवचरितं गद्यकाव्ये हर्षचरितत्र्चेति काव्य द्वितयमेवैतिहासिकरूपेण सातिशयं प्रथितम् । १ महाकाव्यलक्षणं यथा साहित्यदर्पणे सर्गबन्धो महाकाव्यं तत्रैको नायकः सुरः । सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः । एकवंशभवा भूपाः कुलजा बहवोऽपि वा । श्श्रृंङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते ॥ अङ्गानि सर्वेऽपि रसाः सर्वे नाटकसन्धयः । इतिहासोद्भवं वृत्तमन्यद्वा सज्जनाश्रयम् ॥ चत्वारस्तस्य वर्गाः स्युस्तेष्वेकं च फलं भवेत् । आदौ नमस्क्रियाशीर्वा वस्तुनिर्देश एव वा । क्वचिन्निन्दा खलादीनां सतां च गुणवर्णनम् । एकवृत्तमयैः पद्यैरवसानेऽन्यवृत्तकैः । नातिस्वल्पा नातिदीर्घा सर्गा अष्टाधिका इह । नानावृत्तमयः क्वापि सर्गः कश्चन दृश्यते । सर्गान्ते भाविसर्गस्य कथायाः सूचनं भवेत् । सन्ध्यासूर्योन्दुरजनी—प्रदोषध्वान्तवासराः । प्रातर्मध्यान्हंमृगया-शैलर्तुवन-सागराः । सम्भोगविप्रलम्भौ च मुनिस्वर्गपुराध्वराः । रणप्रयाणोपयममन्त्रपुत्रोदयादयः ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/11
दिखावट