यद्वैरिसामन्तनितम्बिनीनाम अश्रान्तसन्तापकदथ्र्यमाने कुचस्थले शोष विशङ्कया इव कुङ्कुमपङ्क पराङ्मुखम् आसीत्। व्याख्या यस्याऽऽहवमल्लदेवस्य वैरिसामन्ताः शत्रुनृपास्तेषां नितम्बिनीनामङ्गनाना मश्रान्तो निरन्तरश्चासौ सन्तापश्च संज्वरश्च ‘सन्तापः संज्वरः समौ' इत्यमरः । तेन कदथ्र्यमाने दुर्दशामापन्ने तप्ते इत्यर्थः । कुचस्थले स्तने शोषस्य शोषणकर्मणो ‘विशङ्कयेव सन्देहेनेव, कुचयोः शुष्कत्वं कुङकुमलेपजन्योष्णत्वेन माभूदिति हेतोः कुङकुमपङ्क पराङमुखमासीत् नोपलिप्तमित्यर्थ: । पतिविरहात्कुङकुमलेपादीनामभावः । अत्र कुचस्थले कुङकुमलेपस्य पराङमुखत्वे स्तनयोः शोषशङ्काया हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । भाषा जिस राजा के विपक्षी सामन्तों की नारियों के निरन्तर दुख से दुर्दशा को प्राप्त, स्तन, कहीं सूख न जाँय इस सन्देह से मानों उन पर केसर का लेप नहीं किया गया था । अर्थात् पतियों के मर जाने से केसर का लेप आदि श्रृंङ्गार बन्द हो गया था । एकत्र वासादवसानभाजस्ताम्बूललच्म्या इव संस्मरन्ती । वक्त्रेषु यद्वेरिविलासिनीनां हासप्रभा तानवमाससाद ॥१०६॥ 牙古q可》 यद्वैरिविलासिनीनां वक्त्रेषु हासप्रभा एकत्र वासात् अवसानभाजः ताम्बूललक्ष्म्याः संस्मरन्ती इव तानवम् अप्राससाद ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/105
दिखावट