सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/101

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

या नृपा भयन राज्ञा भात्या मशक्रसमान DDDKDDDDDD DDDD DDD क्वचन कस्मिश्चित्कोणे स्थितस्याऽऽत्मानमपावृत्य विद्यमानस्य कलेः कलियुगस्योत्सारणकारणेनाऽपसारणार्थ दूरीकरणार्थमिव यागधूमैर्यज्ञजनितधूमैर्भुवनं जगद्रुरोधाऽऽच्छादितवान् । कलिजनितपापनिवारणार्थं यज्ञा मशकनिवारणार्थं धूमश्च क्रियत इत्याच्चारः । अत्र कलेरुत्सारणस्य यज्ञधूमकरणकभुवनरोधप्रयोजनत्वेनोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । भाषा जिस राजा ने, मच्छर के इतना छोटा रूप धारण कर, किसी कोने में भय से छिपकर बैठे हुए कलियुग को भगाने के लिए ही मानों यज्ञों के धूएँ से पृथ्वी को छा दिया । (मच्छरों कों भगाने के लिए धूवाँ किया जाता है। ) स्वभाविकादुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविधातहेतोः । यस्मिन्परित्रस्त इति क्षितीन्द्रेक्षणं न चिक्षेप कलिः कटाक्षम् ।।१००।। ठान्वय: कलिः यस्मिन् छितीन्द्रे स्वाभाविकात् उष्णगभस्तिभासः क्षत्रोष्मणः दृष्टिविघातहेतोः परित्रस्तः इति क्षणं कटाक्षं न चिक्षेप । व्याख्या कलिः कलियुगो यस्मिन्प्रसिद्धे राजन्याहवमल्लदेवे स्वाभाविकात्प्राकृतिकादुष्णा गभस्तयो यस्य स उष्णगभस्तिः सूर्यस्तस्य भास इव भासः प्रभाः *स्युः प्रभारुग्रुचिस्त्विड्भा भाश्छविद्युतिदीप्तयः' इत्यमरः ॥ यस्य तस्य क्षतात्त्रायत। इति क्षत्रं क्षत्रियकुलं तस्योष्मा तेजस्तस्य क्षत्रोष्मणः क्षात्रतेजसो दृष्टेविघात इति दृष्टिविघात दृष्टिविनाशस्तस्य हेतोः कारणात् परित्रस्तो भयभीत इति हेतुना