सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्री सङ्कष्टनाशिन्यै नमः । अयि सुरसरस्वतीपरिचरणपरा: शास्त्रधुरन्धरा विपश्चिद्वारा महानुभावाः ! प्रथितयशस्सु तत्रभवत्सु न ह्येतत्तिरोहितं यद्वाङमये काव्यस्य कीदृशं महितमास्पदमिति । काव्यं नाम लोकोत्तरवर्णननिपुणकविकर्म । कवेर्भावः कर्म वा काव्यमीदृश्या व्युत्पत्त्या कविशब्दाद् 'गुणवचनब्राह्मणादिभ्यः कर्मणि' चेति सूत्रेण ष्यञ्प्रत्यये कृते काव्यपदसिद्धिरिति वैयाकरणी प्रसिद्धिः । कवते (वर्णयति), कौति, कुवते (शब्दायते) वेति कवि:। ‘कुड” शब्दे इति भौवादिकात्तौदादिकाद्वा 'कु' शब्दे इत्यादादिकाद्वा धातोः 'अच इ” इति सूत्रेणेप्रत्यये कृते कविपदनिष्पतिरिति शाब्दिकी व्युत्पतिः । निरुक्ते (१२-१३-१) यास्काचार्येण कविशब्दस्य मेधावीत्यर्थ प्रतिपाद्य 'कविः क्रान्तदर्शनी भवति कवतेव' इति व्युत्पादितम् । वैदिकनिघण्टौ (२-१४), 'कवते' इति रूपं गत्यर्थकधातुषु पठितम् । ‘गत्यर्थाः सर्वे ज्ञानार्थाः” इति न्यायात्कविशब्दस्य क्रान्तदर्शी मेधावी वेत्यर्थस्संगच्छते । वैदिकनिघण्टौ (३-१५) मेधाविशब्दस्य पर्यायवाचकेषु शब्देषु कविशब्दः पठितः । तादृशस्य कवेः कृतिः काव्यमिति पूर्वमेव प्रतिपादितम् । काव्यलक्षणं यथाऽऽह मम्मटभट्टः-'तददोषौ शब्दार्थी सगुणावनलडाकृती पुनः क्वाऽपि” इति । निर्दोषं सगुणं स्फुटास्फुटालङ्कारञ्च शब्दार्थयुगलं काव्यमिति लक्षणस्यैतस्य निष्कर्षः । श्रीमतां पुरतस्ससम्मानमुपस्थाप्यमानमेतद्विक्रमाडूदेवचरिताभिाधानं ग्रन्थरत्नं च नित्यदोषाभावात्प्रसादादिगुणसहितत्वादुपमाद्यलङ्गारमहितत्वाच्च स्फुटमेव काव्यकोटिमेवाऽऽटीकते ।