सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[स० ३
विक्रमाङ्कदेवचरितम् ।

प्रतिक्षणं कुन्तलपार्थिवस्य वितन्वतस्तन्मुख चुम्बनानि ।
तदीयदन्तच्छदजन्मनेव रामेण चेतः परिपूर्णमासीत् ॥ १२ ॥
मुखेन्दुसंचारकृताभिलाषकुरङ्गभीत्यर्थमिवार्पितेन ।
कण्ठावसक्तेन स राजसूनुरराजत व्याघ्रनखाङ्कुरेण ॥ १३ ॥
क्रीडन्समुत्सारितवारनारीमज्जीरनादागतराजहंसः |
एकः क्षितेः पालयिता भविष्यन्स राजहंसासहनत्वमूचे ॥ १४ ॥
स पीडयन्नायसपञ्जरस्थान्क्रीडापरः केसरिणां किशोरान् ।
समाददे भाविरिपुद्विपेन्द्रयुद्धोपयोगीव तदीयशौर्यम् ॥ १५ ॥
प्राप्तोदयः पादनखैश्चकासे स बालचन्द्र परिवर्धमानः |
अभ्यर्थ्यमानः सहखेलनाय बालैरपत्यैरिव शीतरश्मेः ॥ १६ ॥
परां प्रतिष्ठां लिपिषु क्रमेण नगाम सर्वासु नरेन्द्रसूनुः ।
पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥ १७ ॥
अभ्यासहेतोः क्षिपतः पृषत्कान्नरेन्द्रसूनोः सकलासु दिक्षु ।
प्रहारभीतेव परिभ्रमन्ती पार्थस्य कीर्तिविरलीबभूव ॥ १८ ॥
लावण्यलुब्धामिरलब्धमेव भूपालकन्यामधुपाङ्गनाभिः ।
कवित्ववक्तृत्वकला चुचुम्ब सरस्वती यस्य मुखारविन्दम् ॥ १९ ॥
तं बालचन्द्रं परिपूर्यमाणमालोक्य लावण्यकलाकलापैः ।
कुमुद्धतीनामिक कामिनीनां निशासु निद्रा विमुखीबभूव ॥२० ॥
धैर्येण तस्मिन्नवधीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् ।
आबद्धमुग्धबुकुटिच्छटानां पेतुः सकोपं नयनोत्पलानि ॥ २१ ॥
लावण्यलक्ष्मीकुलधाम्नि तत्र विवर्धमाने शनकैः कुमारे ।
कासामजायन्त न कामिनीनां निद्रादरिद्राणि विलोचनानि ॥ २२ ॥
तेजस्विनामुन्नतिमुन्नतात्मा सेहे न बालोपि नरेन्द्रसूनुः ।
देवोपि भास्वाञ्छरणेच्छयेव समाश्रितो विष्णुपदं रराज ॥ २३ ॥