सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विक्रमाङ्कदेवचरितम् । [स १.

हिमाचलम्यैव कृतः शिलाभिरुदारजाम्बूनदचारुदेहः ।
अथाविरासीत्सुभटस्त्रिलोकत्राणप्रवीणश्चुलुकाद्विधातुः ॥ ५५ ॥
प्रस्थाप्य शक्रं धृतिमान्भवेति हर्षाश्रुपारिप्लवट्टक्सहस्रम् |
स शासनात्पङ्करुहासनस्य मरुद्विपक्षक्षयदीक्षितोभूत् ॥ ५६ ॥
क्ष्माभृत्कुलानामुपरि प्रतिष्ठामवाप्य रत्नाकरभोगयोग्यः ।
क्रमेण तस्मादुदियाय वंशः शौरेः पदाद्द्वाङ्ग इव प्रवाहः ॥ ५७ ॥
विपक्षवीराद्भुतकीर्तिहारी हारीत इत्यादिपुमान्स यत्र ।
मानव्यनामा च बभूव मानी मानव्ययं यः कृतवानरीणाम् ॥ ५८ ॥
मिलद्विलासालकपल्लवानि विशीर्णपन्नावलिमण्डनानि।
मुखानि वैरिप्रमदाजनस्य यद्भूपतीनां जगदुः प्रतापम् ॥ ५९ ॥
उत्खातविश्वोत्कट कण्टकानां यत्रोदितानां पृथवीपतीनाम् ।
क्रीडागृहप्राङ्गणलीलयैव बभ्राम कीर्तिर्भुवनत्रयेपि ॥ ६० ॥
यत्पार्थिवै: शत्रुकठोरकण्ठपीठास्थिनिर्लोठनकुण्डधारः ।
निन्ये कृपाणः पटुतां तदीयकपालशाणो पलपट्टिकासु ॥ ६१ ॥
निरादरश्चन्द्रशिखामणौ यः प्रीतेपि लोकत्रितयैकवीरः ।
क्षिपन्कृपाणं दशमेपि मूर्ध्नि स्वयं धृतः क्ष्माधरराजपुत्र्या ॥ ६२ ॥
प्रसाध्य तं रावणमध्युवास यां मैथिलीशः कुलराजधानीम् ।
ते क्षत्रियास्तामवदातकीर्ति पुरीमयोध्यां विदधुर्निवासम् ॥ ६३ ॥
जिगीषवः केपे विजित्य विश्वं विलासदीक्षारसिकाः क्रमेण ।
चक्रुः पदं नागरखण्डचुम्बि पूगद्रुमायां दिशि दक्षिणस्याम् ॥६४ ॥
तदुद्भवैर्भूपतिभिः सलीलं चोलीरहःसाक्षिणि दक्षिणाब्धेः ।
करीन्द्रदन्ताङ्कुरलेखिनीभिरलेखि कूले विजयप्रशस्तिः ॥ ६५ ॥


 I. 55. ब्राग Ms. pr. m. - I. 57. कुळानामुपरि Ms-I. 61. धाराः Ms.