सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् - बिल्हण.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
[स
विक्रमाङ्कदेवचरितम् ।

संख्यात्सङ्गादपसृततां भूभुजां वल्लमा श्रीः
खजे यस्य द्विपमदमषीपङ्कलिते लुलोठ ॥ ५१ ॥
दर्पाष्मातप्रतिभटनृपातसेनाशिरांसि
त्यक्त्वा सान्द्रोल्लसदसिलताशैवलश्यामलानि ।
हेमाम्भोजप्रतिमवदनालोकनादेव यस्य
प्राप्ता लक्ष्मीश्चरणनिकट कीर्तिहंसावतंसा ॥ ५२ ॥
दिग्यात्रासु स्फटिकविशदच्छायमच्छोदमेत्य
भ्राम्यन्निन्द्रायुधखुरपुटोट्टङ्कितासु स्थळीषु ।
कादम्बर्याः परिजनमसौ मर्त्यलोकचन्द्र-
श्चन्द्रापीडस्तुतिषु विदधे संकुचद्वाग्विलासम् ॥ ५३ ॥
धेनदीच्यां दिशि गतवता वन्दितोसौ गिरीन्द्र-
श्चञ्चञ्चण्डी पतिवृषखुरक्षोदलेखावतंसः ।
शङ्के लङ्कापतिकरतलोत्क्षेपलोलस्य यस्य
त्रस्ताः केचित्तलभुवि गणा नाधुनाप्युच्छ्रसन्ति ॥ ५४ ॥
धृत्वा काश्चित्कनककपिशाः कौतुकाद्यक्षकन्याः
प्रत्यागच्छधनपतिपुरादुत्तरं मानसं यः ।
दत्ताश्लेषं हरमुकुटतः स्वस्तया नाकनद्या
हेमाब्जामानामकृत वसतिं मानसादाहृतानाम् ॥ ५५ ॥
यस्पोदारां परिकलयतः शस्त्रशास्त्रप्रतिष्ठां
दे प्रेयस्यौ जगति विदिते श्रीश्च वाग्देवता च ।
एका भेजे भुजमभिनवाम्भोदनीलातपत्रा
श्वेतच्छायितसितयशश्चन्द्रिकान्या मुखेन्दुम् ॥ ५६ ॥

अश्वैः कृत्वा पवनगतिभिर्लङ्घनं वालुकाधे-


'''' XVIII, 53 भ्राम्यानि पुटोकि तासु Ms. ---XVIII. 86. अस्तया Me