समन्ततः स्फाटिककुट्टिमेन हिमं शिलीभूतमिवोद्वहन्ति ॥ ५० ॥
परिस्फुरत्केतक पत्त्रभङ्गया घण्टासहस्रेरिव दन्तुराणि ।
अदृश्यसूर्याणि घनोपमानां नीरन्धबन्धात्कदलीदलानाम् ॥ ५१ ॥
गवाक्षजालान्तरनिर्यदच्छनीरन्ध्रधारानिकरच्छलेन ।
निदाघ संरोधविसूत्रणाय व्यापारयन्तीय पृषत्कपङ्गिम् ॥ ५२ ॥
अत्यन्त शैत्यादिव संकुचद्भिरस्पृष्टपूर्वाणि करैः खराशोः ।
दुर्गाणि घर्मेषि हिमर्तुजीवरक्षाक्षमाणीव कृतानेि धात्रा ॥ ५२ ॥
धारा गृहाणि कममार्जनेन स्मरस्य चापश्रममादिशन्ति ।
मृगेणाभिः सममध्युवास मध्यंदिने मध्यमलोकपालः॥५४॥
घोलान्तकश्रन्दनपाण्डुरेषु नितम्बिनीनां स्तनमण्डलेषु ।
साम्राज्यमानम्र जगत्त्रयस्य मेने मनोजन्मनराधिपस्य ॥ ५५ ॥
हिमाद्रिशृङ्गाधिकशीतलेषु वराङ्गनाकुचस्थलेषु ।
घोरं निराकर्तुमसौ निदाघं विलेपनापाण्डुषु पण्डिताभूत् ॥ ५६ ॥
स्त्रीणामनालेपनशीतमङ्ग विपाटलः पाटलया समीरः ।
स्मरस्य वीरव्रतरक्षणाय तस्मिन्बभूव स्मितमल्लिका च ॥ ५७ ॥
प्रसारिताः कान्तिजलैर्वधूनां निपत्य यत्पाथसि दुग्धमुग्धे ।
न क्षीरनीरप्रविभागहेतोरन्यत्र हंसाः पुनरुत्सहन्ते ॥ ५८ ॥
रणव्द्यिरेफ़ेषु सरोरुहेषु यत्रोपविष्टाः प्रतिभान्ति हंसाः ।
समर्प्य लीलागमनं गृहीतमञ्जीरनादा इव सुन्दरीभ्यः ॥ ५९ ॥
यत्पङ्कजैः स्नानविनोदभाजां जाने नरेन्द्रप्रमदाजनानाम् ।
मुखेन्दुबिम्बविरोधहेतोः समर्पिता पादतलेषु लक्ष्मीः ॥ ६० ॥
श्रोणीत टोल्लासितरङ्गदोलाविला सवाचालित सारसासु ।
XII. 51. परिस्फुरत्केतकेतक Ms. - XII. 54. After this vs. the Mo. inserts कुलकम्-' '''' '