पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ७४ )

अन्वयः

 यस्य पुरः चिन्तामणिः वराकः तथाहि इयं वार्ता जनविश्रुता यत् तत्र सौवर्णतुलाधिरुढे (सति) सः पापाणतुलाधिरोहं चक्रे ।

ब्याख्या

 यस्य राज्ञः पुरः समताया चिन्तामणिर्नामाऽनर्घ्य रत्नं वराकोऽगण्यो दैन्यमेवाऽवलम्बते । राजापेक्षया नातिशयचमत्कारित्वेन प्रभावशून्यत्वात् । तथाहि यत इयं वार्ता जनेषु विश्रुता विख्याताऽऽसीत् । यवित्यनेनोत्तरार्द्धोक्तवाक्यार्थपरामर्शः । तत्र राजनि सुवर्णतुलापुरुषदानार्थं सौवर्णी तुलेतिसौवर्णतुला तस्यामधिरूढे स्थिते सति स चिन्तामणिः पाषाणेन सह तुला साम्यं तस्यामधिरोहं स्थितिं, रत्न-तोलन-तुलाया वा स्थिति चक्रे । अस्य राज्ञः सुवर्णेन तुलना चिन्तामणेस्तु पाषाणेन तुलनेत्यर्थपरामर्शाच्चिन्तामणेर्दैन्यमेव । अथ च स चिन्तामणिरभीष्टवस्तुचिन्तयाऽभीष्टवस्तुप्रदाता । अयं राजा तु चिन्तां विनैव सर्वाभीष्ट दातेति भावः । उपमानस्य चिन्तामणे राजरुपोमेयापेक्षयाऽपकर्षप्रतिपादनद्व्यतिरेकालङ्कारः। ‘उपमानाद्यदन्यस्य व्यतिरेकस्सएव सः' ।

भाषा

 जिस राजा की समता मे चिन्तामणि रत्न भी किसी महत्व का नही था । इसीलिये यह बात लोक प्रसिद्ध है कि सुवर्ण पुरुप के दान में राजा सोने की तुला पर चढता था किन्तु चिन्तामणि पत्थर (रत्न) तौलने की तुला पर तोला जाता था अर्थात् चिन्तामणि की तौल पत्थरो से होती थी और राजा की सोने से' । ( चिन्तामणि अभीष्टवस्तु की याचना करने पर अभीष्ट वस्तु देता है किन्तु यह राजा विना याचना के ही अभीष्ट वस्तु देता था) ।

विधाय रूपं मशकप्रमाणं भयेन कोणे क्वचन स्थितस्य ।
कलेरिवोत्सारणकारणेण यो यागधूमैर्भुवनं रुरोध ॥

अन्वयः

 यः भयेन मशकप्रमाणं रूपं विधाय क्वचन कोणे स्थितस्य कलेः उत्सारणकारणेन इव यागधूमैः भुवनं रुरोध ।