पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ७३ )

 तिविनिमपो योऽर्थाना स्यात्समासनैरिति लक्षणात् । धारा शब्दस्य धारानगरी, खड्गधारा जलधारा चेत्यर्थात्रयबोधाच्छलेषोऽलङ्कार , अत सकर ।

भाषा

 जिस राजा की तलवार,युद्ध् में विजयरूपी अमृत का पान कर अवश्य मदोन्मत्त हो गई थी ! क्यो कि उसने केवल एक धारा नगरी को लेकर या एक धारा रखते हुवे कीर्ति की हजारो धाराओ को बहाया ।

शतक्रतोर्मध्यमचक्रवर्ती क्रमादनेकक्रतु दीक्षितोऽपि ।
ऐन्द्रात्पदादभ्यधिके पदे यस्तिष्ठन शङ्कास्पदतामयासीत् ।।६७।।

अन्वयः

 मध्यमश्चक्रवर्ती क्रमात् अनेकक्रतुदीक्षितः यः ऐन्द्रात् पदात् अभ्यधिके पदे अपि तिष्ठन् शतक्रतोः शङ्कास्पदता न अयासीत् ।

ब्याख्या

 मध्यमचक्रवर्ती मध्यमलोकस्य भूलोकस्य चक्रवर्ती सार्वभौम क्रमात्परिपाटयाऽनेकेष्वसस्येषू क्रतुषु यज्ञेषु वीक्षित सञ्जातवीक्ष यो राजा ऐन्द्रात्पवविन्द्रपदापेक्षयाऽभ्यधिकेऽधिकगुणे पदेऽपि स्थानेऽपि तिष्ठन्समासीन' शतक्रतोरिन्द्रस्यशङ्कात्पदता सन्देहस्थाने नाऽपारोन्न प्राप्त । तस्याऽसंख्यक्रतुसम्पादनेनाऽपि शतक्रतुभयभीतो न बभूव यतस्तेनैव तदुत्पादनार्थं ब्रह्मा प्रार्थित आसीत् । शङ्काकारणसत्वेऽपि शङ्कारवरुपकार्यभावप्रतिपादनद्विशेषोक्तिरमलङ्कारः।

भाषा

 पृथ्वी के सम्राट् आहवमल्लदेव के धीरे २ अनेक यज्ञों के करने से इन्द्र पद से भी उच्चपद पाने की योग्यता हो जाने पर भी इन्द्र के मन में उसके सम्बन्ध में कोई शङ्का उत्पन्न न हुई। (क्योकि इन्द्र की प्रार्थना से ही यह चालुक्य वंश ब्रह्माने उत्पन्न किया था ।)

चिन्तामुणिर्यस्य पुरो वराकस्तथाहि वार्ता जनविश्रुतेयम्।
यत्तत्र सौवर्णतुलाधिरूढे चक्रे स पाणातुलाधिरोहम् ॥k८॥