पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७२ )

अन्वयः

 यः कोटिहोमानलधूमजालैः दिशां मुखानि मलीमसीकृत्य अखण्डता रापतिपाण्डुराभिः तत्कीर्तिभिः शश्वत् क्षालयति स्म ।


व्याख्या

 य आहवमल्लदेवः कोटिसंखका होमा यज्ञास्तेयाऽग्निस्तस्य धूमजा लैर्धूमसमूहैदिशां काष्ठानां 'दिशस्तु ककुभः काष्ठा आशाश्चहरितश्चता इत्यमरः, मुखानि मलीमसीकृत्य ‘अभूततद्भावे च्वि प्रत्ययः' मलिनीकृत्य 'मलीम सन्तु मलिनं कञ्चर मलदूषितम्' इत्यमरः । अखण्डः परिपूर्णस्तारापतिश्चन्द्र- स्तद्वत्पाण्डुराभिः शुक्लाभिस्तत्कीर्तिभि यज्ञयशोभि शश्वत्पुनः क्षालयतिस्म पुनरपि श्वेतताकमानयतिस्म ! तारापतेः पाण्डुरत्वेन कीर्तौ सादृश्यादुपमा । दिङमुखमलिनीकरणपतुभ्यो यज्ञेभ्य एव पाण्डुरकीर्ति जननाद्विपमालङ्करोऽप्यत्र ।

भाषा

 जिसमें करोडो यज्ञ की अग्नियो से उत्पन्न धूएँ से दिशाओ के मुखों को मैलाकर पूर्ण चन्द्र के समान शुभ्रवर्ण अपनी यज्ञजन्य कीर्ति से उनके मुखों को फिर से धो डाला । अर्थात् उसने करोडो यज्ञ किये जिससे उसका यश चारो दिशाओं में फैल गया।


ध्रुवं रणे यस्य जयामृतेन क्षीबः क्षमाभर्तुरभूत्कृपाणः ।
एका गृहीता यदनेन धारा धारासहस्त्रं यशसोऽवकीर्णम् ॥६६॥

अन्वयः

 यस्य क्षमाभर्तुः कृपाणः रणे जयामृतेन भुवं क्षीबः अभूत् । यत् अनेन एका धारा गृहीता यशसः धारासहस्रम् अवकीर्णम्।

व्याख्या

 यस्य प्रसिद्धस्य क्षमाभर्तुः पृथ्वीपतेः कृपाणः खड्गो रणे युद्धे जयामृतेन विजयख्यामृतपानेन ध्रुवं निश्चयेन क्षीबो मदान्धोऽभूत् । यद्यस्मात्कारणादनेनैका धार धारानगरी खड्गधारा च गृहीता स्वायत्तीकृता धारिता च परञ्च तेन कार्येण यशसः कीर्तेर्धारासहत्रं प्रवाहसहस्रमवकीर्ण विस्तारितम् । इदमेव मत्तत्वं यदेकस्या धाराया धारासहस्त्रेण विनिमयः कृत इति परिवृत्तिरलङ्कारः परिवृ