पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ७१ )


हंसी को (पति वियोग से) उदास कर दिया । अर्थात् भोजराजा की कीर्ति को भी कलङ्कित कर दिया ।


भोजक्षमापालविमुक्तधारा-निपातमात्रेण रणेषु ' यस्य ।
कल्पान्तकालानलचण्डमूर्तिश्चित्रं प्रकोपाग्निरवाप शान्तिम् ॥१४॥

अन्वयः

 यस्य रणेषु कल्पान्तकालानलचण्डमूर्तिः प्रकोपाग्निः भोजक्षमापाल विमुक्तधारानिपतपात्रेण शान्तिम् अवाप (इति) चित्रम् ।

व्याख्या

 यस्य राज्ञो रणेषु युद्धेषु कल्पान्तरस्य प्रलयस्य यः कालानलः सर्वभस्म सात्कारिप्रचण्डाग्नीस्तद्वच्चण्डोग मूर्तिः स्वरूपं यस्य सः,‘सर्वतः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि' इत्यमरः । प्रकोपाग्निः क्रोधानलो भोजएव क्षमापालो मुपस्तेन विमुक्ता त्यक्ता पक्षे प्रवाहिता धारानगरी खङ्गधारा जलधारा च तस्या निपातेन पतनेन प्रवाहेण च शान्तिमवाप प्रापेति त्रित्रमद्भुतम् । यथा। जल: धारयाग्नी शान्तिमेति तथैव धारानगरीविजयेन राज्ञ क्रोध शान्तिमगाविश्यणैः। कल्पान्तकालानलेन प्रकोपाग्नेस्तादृश्यादुपमालङ्कारः । श्लिष्टेन धारापदेन जल धाराया धारानगर्याः खङ्गधारायश्च ग्रहणादपि श्लेषोऽलङ्कारः । यथा प्रल याग्निर्भोजनृपतिसृष्टजलधरानिपातिमात्रेण शान्तिमाप्तुं कदापि न शक्नोति तथैव प्रलयाग्निसदृशप्रचण्डकोपाग्निरपि भोजप्रयुक्त खङ्गधारारूपधाराजलेन न शान्तिमाप्तुं प्रभवति प्रवहति परञ्चाऽत्र शान्तिमाप इति विरोधः । धारापदेन धारानगर्या विमर्शेन विरोधपरिहार इति विरोधाभासालङ्करः ।

भाषा

 जिस रजा की , युद्ध में प्रलय कालीन आग के भयङ्कर स्वरूप वाली क्रोधाग्नि, राजा भोज द्वारा चलाई हुई तलवार की धार रूपी जलधारा के पडते ही थंडी हो गई, यह अचम्भे की बात है । यथार्थ में उसका क्रोध, राजा भोज द्वारा त्यक्त धार नगरी के अध पतन से अर्थात् उसको जीत लेने से शान्त हुआ।

यः कोटिहोमानलधूमजालैर्मलीमसीकृत्य दिशां मुखानि ।
तत्कीर्तिभिः क्षालयति स्म शश्व-दखण्डतारापतिपाण्डुराभिः ॥l&५।।