पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ६२ )


प्रतापभानौ भजति प्रतिष्ठां यस्य प्रभातेष्विव संयुगेषु ।
सूर्योपलानामिव पार्थिवानां केषां न तापः प्रफटीबभूव ।८१।।

अन्वयः

 प्रभातेषु इव सयुगेपु यस्य प्रतापभानौ प्रतिष्ठा भजति (सति) सूर्योप लानाम् इव केपा पाथिवाना तापः न प्रकटीबभूव ।

व्याख्या

 प्रभातेपु प्रत्यूषेषु प्रत्यूषोऽहर्मुख कल्यमुप प्रत्युपसी अपि प्रभात चेत्यमर । इव सयुगेषु युद्धेषु यस्य राज्ञो जयसिंहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन् प्रतिष्ठr भजति विद्योतमाने सति सर्योपलानामिव सूर्यकान्तमणीनामिव केषा पार्थीवाना विपक्षिनृपाणा तपस्सन्ताप सज्वलन न प्रक्टीबभूव किन्तु रामेण विपक्षिणा सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपाद्रूपकम् । प्रभात सयुगयो सूर्योपलपार्थिवयोश्चोपमा । केषा न प्रकटीबभूवेत्यर्थापत्तिश्चेति परस्परसापेक्षत्वादेतेषा सङ्कर ।

भाषा

 प्रात काल के सदृश युद्ध में, सूय के सदृश उस राजा जयसिहदेव के प्रताप के विद्यमान होन पर सूय मणिया के समान किन राजाओ में सन्ताप प्रकट न हुवा | अर्थात राव राजा इसक प्रतप से सन्तप्त हा गय ।


यात्रासु यस्य ध्वजिनीभरेण दोलायमाना मकला धरित्री ।
आर्द्रव्रणाधिष्ठितपृष्ठपीठ-मकर्मठं कूर्मपतिं चकार ॥८२॥

अन्वयः

 यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री आर्द्धव्रणा धिष्ठितपृष्ठपीठ कूर्मपति अकर्मठं चकार ।

व्याख्या

 यस्य राज्ञो जयसिंहदेवस्य यात्रासु युद्धयत्रासु ध्वजिया सेनाया ‘ध्वजिनी वाहिनी सेना पृतनाऽनौकिनौ चमू' इत्यमर ! भरेण भारेण दोला इव'ss- चरतीति दोलायमाना सञ्चालिता सक्ला समप्रा ‘समग्र सकल पूर्णम्' इत्यमर ।