पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५४ )

व्याख्या

 सत्येषु युद्धेषु शूरस्य भाव शौर्यं तद्रूपेणोष्मणा पराक्रमोष्मणा स्विन्न स्वेदेनार्द्र करो हस्तो यस्य तस्य यस्य श्री तैल्पस्य प्रतिपक्षाणा शत्रूणा काल यमरूपो नाशकरखड्गः पुरन्दरेणेन्द्रेण 'पुरुहूत पुरन्दर' इत्यमर । प्रेरिता धृता या पुष्पाणा कुसुमाना वृष्टिर्वर्षे तस्या परागस्य सुमनोरजस 'पराग सुमनीरज'इत्यमर । सङ्गात्सम्पर्कान्निविडत्व घनत्वमाप प्राप । परागसम्पर्कात्खड्गे स्वेदजलार्द्रत्वस्य निवारणादृढतया हस्तेन खड्गधारण जातमत खड्गहस्तयोविरलसम्बन्धस्याभावाद् घनसम्बन्धो जात इति भाव । शौर्य ऊष्माभेदात्खड्गे प्रतिपक्षकालाभेदाच्च रूपकम् ।

भाषा

 युद्धो में पराक्रमरूपगर्मी से पसीने से भरे हाथ वाले राजा का, शत्रुओ का कालरूप खड्ग इन्द्र द्वारा की हुई पुष्पवृष्टि के पराग के सम्बन्ध से गाढापन आ जाने से हाथ में अधिक दृढ़ हो गया। अर्थात हाथ में पसीना आ जाने से कोई वस्तु दृढ़ता से नही पकडी जा सकती। मिट्टी लगा लेने से फिर दृढता आ जाती है ।

यस्याञ्जनश्यामलखड्गपट्ट-जातानि जाने धवलत्वमापुः ।
अरातिनारीशरकाण्डपाण्डु-गण्डस्थलीनिर्लुठनाद्यशांसि ॥७१॥

अन्वयः

 यस्य अञ्जनश्यामलखड्गपट्टजातानि यशांसि अरातिनारीशरकाण्डपाण्डुगण्डस्थलीनिर्लुठनात् धवलत्वम् आपुः (इति) जाने ।

व्याख्या

 यस्य राज्ञस्तैलपस्याऽय्जनत्वज्जल्वच्छ्यामल कृष्ण खड्ग एव पट्टस्तस्माज्जातानि प्रादुर्भूतानि यशांसि कीर्तय अरातीनां शत्रृणां नाय स्त्रिंयस्तासां दारण्डवत् द्दष्टषत गुन्द्रतेजनक शर' इत्यमर । 'सरहरी' इति भाषायां प्रसिद्धम् । पाण्डवर्णा श्वेता गण्डस्थस्य कपोलास्तासु निर्लुठनात्राम्प गडबलत्वं स्वमापुत्रम् । इति जाते तर्कयामि । अनेन सह खत्रय श्यामलत्वेन सादृश्य दशनाद्गण्डरत्यल्पा पाण्डुत्वेन शरकाण्डेन सादृश्याच्चोपमा ।