पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ५२ )

व्याख्या

 येषामिमे इति मदीया मन्नृपसम्बन्धिनस्तुरगा अश्वा कर्पूरस्य परागश्चूर्णं तद्वत्पाण्डुषु शुक्लेषु द्वीपेषु लीलया क्रिडया परिवर्तनानि परिभ्रमणान्यास्वाद्याऽनुभूय, भूमावुपविश्य परिश्रान्तिनिरासायाऽङ्गानिप्रसार्य धूलिधूसरास्सन्तोऽङ्गत्रोटनानि वाऽनुभूय कृत्वा तुषाराद्रितटे हिमाचलप्रान्ते (शुक्लवर्णद्वीपस्य) भ्रान्त्या कर्पूरद्विप भ्रमेण लुठन्तश्चलन्त परिश्रान्तिनिवारणायाऽङ्गपरिवर्तन कुर्वन्तो वा सन्त शीतेन शैत्येन खिन्ना दुःखिता बभूवु । तुषाराद्रितटे कर्पूरवच्छुभ्रवर्णद्वीप भ्रान्तिनिरूपणाद्भ्रान्तिमानलङ्कार ।'साम्यादतस्मिस्तद्वुद्धिर्भ्रान्तिमान्प्रतिभोत्यित ।' एतेत हिमाचलपर्यन्तमेतेषां विजय सूच्यते ।

भाषा

 इन राजाओं के घोड, कपूर के चूर्ण के समान सफेद कर्पूर द्वीप के टापुओ में टहलने का सौख्य प्राप्त कर या थकावट हटान के लिये लोटपोट करने का सौख्य प्राप्त कर, उसी भ्रम से बरफ से ढके हुए सफेद हिमालय पर्वत पर चलते से या लोटने से शीत से बहुत पीडित हुए ।


इतः पर षड्भिः श्लोकैस्तैलपं नृपं वर्णयति-

श्रीतैलपो नाम नृपः प्रतापी क्रमेण तद्वंशविशेपकोऽभूत् ।
क्षणेन यः शोणितपङ्कशेपं संख्ये द्विपां वीररसञ्चकार ॥६८॥


अन्वयः

 यः संख्ये द्विपा वीररस क्षणेन शोणितपङ्शेप चकार (एवम्भूतः ) श्री तैलपः नाम प्रतापी नृपः क्रमेण तद्वंशविशेपकः अभूत् ।

व्याख्या

 य सख्ये युद्धे मूधमास्कन्दन सख्य समोक साम्परामिकम्' इत्यमरः । द्विय शत्रूणाम् ‘द्विडिवपक्षाहितामित्रदस्युशात्रवशत्रव' इत्यमर । वीररसमुत्साह जलञ्च क्षणेनाऽल्पकालेन शोणितस्य रुधिरस्य पङ्क र्क्वम एव शषोऽवशिष्टाशो यस्य त चकार प्रकटयाञ्चकारैबम्भूत श्री तैलपो नाम प्रतापी प्रभाववान्नृपो राजा क्रमेण क्रमश स चाऽसौ यशश्च तद्वशस्तस्य विशेषकस्तिलकोऽभूत् । "तमालपत्रतिलकचित्रकाणि विशेपकम्" इत्यमर । यस्य प्रतापोष्मण वीररसरूपे जले क्षोपिते रुधिरपङ्कमेवाऽवशिष्टमिति भावः ।