पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
( ४८ )

व्याख्या

यस्य चालुक्यवंशस्य पार्थिवेनृपैः शत्रूणामरीणां कठोरः कठिनाः ये कष्ठपीठा ग्रीवास्थलानि तेषामस्थीनि तेषां निर्लोठनेन खण्डनेन कुण्ठा कुण्ठीभूता धारा

तीक्ष्णाग्रभागो यस्य सः कृपाणः खङ्गः तेषामिदं तदीयं तानि शत्रुसम्बन्धीनि

कपालान्येव शिरोस्थीन्येव शाणोपलपट्टिकाः तीक्ष्णताप्रवधेकयन्त्रविशेषाः 'सान' इति लोके प्रसिद्धम् । तासु पटुतां तीक्ष्णतां निन्ये प्रापितः । कपालोपरि शणोपलपट्टिकात्वारोपाद्रूपकम् । कण्ठे पीठाभेदाच्चरूपकम् ।

भाषा

जिस वश के राजाओ ने, शत्रुओ को कडी २ गले की हड्डियों के काटने से कुन्द धार वाली तलवार की धार, शत्रुओ के सिर की हड्डी रूपी सान पर चढ़ा कर तेज की ।

निरादरश्चन्द्रशिखामणौ यः प्रीतेऽपि लोकत्रितयैकयीरः।
क्षिपन्कृपाणं दशमेऽपि मूर्ध्नि स्वयं धृतः क्ष्माधरराजपुत्र्या ॥६२॥

अन्वयः

यः लोकत्रितयैकवीरः चन्द्रशिखामणें प्रीते अपि निरादरः (सन्) दशमे गूर्ध्नि अपि कृपाणं क्षिपन् क्ष्माधरराजपुत्र्या स्वयं धृतः ।

व्याख्या

यः प्रसिद्ध लोकानां भुवनानां ‘लोकस्तु भुवने जनै' इत्यमरः । त्रितयं । अयं तस्मिन्नेकोऽद्वितीयो वीरो रावणश्चन्द्रएव शिखामणिः शिरोभूषणं यस्य सः शिवस्तमिन् प्रीतेऽपि प्रसन्नेऽपि निरादरस्सन् शिवस्य प्रसन्नतामगणपन्दशमे मूर्ध्येपि शीर्षेऽपि कृपाणं चन्द्रहासं क्षिपन्प्रहरन् क्ष्माधरस्य हिमाचलस्य राजपुत्र्या राजकन्यया पार्वत्या स्वयमेव पूतो निवारितोऽभूत् ।

भाषा

तीनो लोको में अद्वितीय वीर रायण, जिसको, शंकर के प्रसन्न होने पर भी, उनकी प्रसन्नता की परवाह न कर अपने दसवें सिर पर तलवार चलाने से पाषेती जी ने स्वयं रोका था ।