पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

( ४१ )

भाषा

 सोने के समान शरीर के स्वाभाविक रग के कारण मानो बाणो या अन्य अस्त्रो से न छिद सकने वाले सोने से वने हुए कवच को धारण करने वाला, विजयलक्ष्मी के (बैठने के) सोने के आसन के समान उन्नत स्कन्धप्रदेशो को धारण करने वाला (एक वीर प्रकट हुआ ।)


स्वःसुन्दरीबन्दिपरिग्रहाय दत्तोऽञ्जलिः सम्प्रति दानवेन्द्रैः।
इति प्रहर्पादमराङ्गनानां नेत्रोत्पलश्रेणिभिरर्च्यमानः ॥२॥

अन्वयः

सम्प्रति दानवेन्द्रैः स्वःसुन्दुरीबन्दिपरिग्रहाय अञ्जलिः दत्तः इति प्रह्र्र्पात् अमराङगनानां नेत्रोत्पलश्रेणिभिः अर्च्यमानः(सुभटः प्रादुरासीत्)

व्याख्या

 सम्प्रत्यधुना राज्ञः समुत्पत्त्यनन्तरं दानवेन्द्रैर्वेत्यधुरन्धरैः स्वः स्वर्गस्य सुन्दर्य एव वन्दिनो वशीकृताः स्त्रियः स्तुतिपाठिका वा‘बन्दिनःस्तुतिपाठकाः'इत्यमरः ।तासां परिग्रहाय सुन्दरस्त्रीत्वेन स्तुतिपाठकात्वेन वा हरणापाऽञ्जलिदैतः। अस्य राज्ञो भयात्सुरसुन्दरोबन्दिकरणाय तासां हठापहरणस्य साहसस्तेः परित्यक्त इति प्रहर्षादेतत्कार्यजनिताऽऽनन्दोद्रेकेणाऽमराङगनानां देवाङगनानांं नेत्राणि नयनान्युत्पलानीव कमलानीव तेषां श्रेणिभिः पङिक्तभिरर्च्यमानः पूज्यमानो दृश्यमान इयर्थः । न दनवा इतः परमस्य कृपयाऽस्मान्वन्दीकरिष्यन्तीति देवाङ्गनाभिः प्रसन्नाभिर्दूग्भिरवलोक्यमान इति भावः । कमलपङ्क्तिभिरर्च्यमाने प्रहर्षस्य हेतुत्वेनोत्प्रेक्षणादुत्प्रेक्षा । नेत्रयोः कमलसाम्यादुपमा । नेत्राण्यैव कमलानोति रूपकमपि । अतस्तेषां सङ्करः।

भाषा

 इस वीर के उत्पन्न हो जाने पर अब दानवेन्द्रो ने भय से, स्वर्गीय ललनाओ को, अपनी स्तुति करने के लिये अथवा सुन्दर स्त्री होने के नाते अपने वश में करने के हेतु से, उनका अपहरण करने से मुंहं मोड लिया है, इस हर्ष से देवाङ्गनाओ के नेत्र रूपी कमलो से पूजित (एक वीर उत्पन्न हुआ) । अर्थात्