पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ४० )

पानं कृत्वा, नवजातशिशुः पूर्वं दुग्धमेव पिबतीत्याशयः । समुत्थित इव विद्यमान इव सुभटः प्रादुरासीदित्यन्वयः । यशः स्मितञ्च शुभं भवतीति कविसम्प्रदायः । तस्मिन् जातमात्र एव शत्रुयशांसि विनश्यन्ति स्मेति भावः । अधरे पल्लवाभेदाद्रूपकम् । क्षीरेण यशसः साम्यादुपमा । क्षीररूपयशः पानानन्तरं समुथानस्योत्प्रेक्षणाक्रियोत्प्रेक्षा । अत एतेषां संकरः ।

भाषा

 अधिक अभिमान से उत्पन्न भई हुई (श्वेत) मुस्कुराहट से विकसित अधरोष्ठ से शोभित (वह बीर) मानो दूध के समान शत्रुओ के उज्वल यशों को पीकर प्रकट भया हुआ (ब्रह्मा जी की अजुली से उत्पन्न हुआ ।)

सुवर्णनिर्माणमभेद्यमस्त्रैः स्वभावसिद्धं कवचं दधानः ।
जयश्रियः काञ्चनविष्टराभं समुद्वहन्नुन्नतमंसकूटम् ॥५१॥

अन्वयः

 अस्त्रैः अभेद्यं सुवर्णनिर्माणं स्वभावसिद्धं कवचं दधानः जयश्रियः काञ्चनविष्टराभम् उन्नतम् अंसकूटं समुद्वहन् (सुभटो विधातुश्चुलुकादाविरासीद्वित्यनेन सम्बन्धः ।)

व्याख्या

 अस्त्रैर्बाणैरन्यास्त्रैर्वाऽभेद्यं भेत्तुमशक्यं सुवर्णस्य काञ्चनाभस्य सुन्दरदेहवर्णस्य निर्माण निर्मितिमेव स्वभावसिद्धं प्राकृतिकं कवचं तनुत्रं 'अथ तनुत्रं वर्म दंशनम् । उरच्छदः कंकटको जगरः कवचोऽस्त्रियाम्' इत्यमरः । दधानो धारयन्, पक्षे सुवर्णेन हेम्ना निर्माणं यस्यैवम्भूतं कवचम् । श्लिष्टरूपकम् । जयश्रियो विजयलक्ष्म्या उपवेशनाय काञ्चनस्य स्वर्णस्य विष्टरमासनं तदाभेवाऽऽभा कान्तिर्यस्य तं सुवर्णसिंहासनसदृशमुन्नतं प्रशस्तमंसकूटं स्कन्धशिखरं समुद्वहन् धारयन् ‘कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः । सुभटः प्रादुरासीदित्यन्वयः । काञ्चनाभदेहप्रभायां स्वभावसिद्धकवचत्वस्योत्प्रेक्षणादुत्प्रेक्षा । वाचकाभावाच्च तस्य व्यङ्ग्यत्वम् । अंसकूटे काञ्चनविष्टरस्य साम्यप्रतीत्योपमा । देहस्य सुवर्णे स्वभावसिद्धस्वर्णनिर्मितकवचस्य तादात्म्यारोपाद्रूपकमपीत्युत्प्रेक्षारूपकयोः सन्देहसंकरः ।