पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३८ )

उत्तर्जनीकेन मुहुःकरेण कृताकृतावेक्षणबद्धलक्षः ।
रुषा निषेधन्निव चेष्टितानि दिक्पालवर्गस्य निरर्गलानि ॥४८॥

अन्वयः

 कृताकृतावेक्षणबद्धलक्षः (सः) उत्तर्जनीकेन करेण दिक्पालवर्गस्य निरर्गलानि चेष्टितानि रुषा मुहुः निषेधन् इव (विधातुश्चुलुकादाविरासीदित्यग्रिमेण श्लोकेन सम्बन्धः

व्याख्या

 कृतमुचितसमाचरणमकृतमनुचितसमाचरणञ्च कृताकृते तयोः किमुचितं समाचरितं किं वाऽनुचितमाचरितं लोकैरेतयोरवेक्षणे पर्यालोचने बद्धं व्यापृतं लक्षं ध्यानं यस्य स धर्माधर्माचरणसमीक्षणैकचित्तः स सुभट ऊर्ध्वीकृता तर्जनी यस्यैवम्भूतेन तेन करेण हस्तेन दिशा पालाः पालकास्तेषां दिक्पालानां वर्गस्य समूहस्य निरर्गलानि निष्प्रतिबन्धानि चेष्टितानि कार्याणि रुषा क्रोधेन मुहुर्वारं वारं निषेधन्निव निवारयन्निव (विधातुश्चुलुकादाविरासीदित्यनेन सम्बन्धः ।) उत्तर्जनीक्करे दिक्पालचेष्टितकर्मकनिषेधक्रियायास्समुत्प्रेक्षणात्क्रियोप्रेक्षा ।

भाषा

 उचित और अनुचित कार्यों के परीक्षण में दत्तचित्त वह वीर, दिक्पाल लोगो के निरङ्कुश कार्यों का, खडी की हुई तर्जनी अंगुली से युक्त. हाथ से मानो क्रोध से बार २ निषेध करता हुआ (ब्रह्मा जी की अजुली से उत्पन्न हुआ ।)

भोगाय वैपुल्यविशेषभाजं कर्तुं धरित्रीं निजवंशजानाम् ।
केयूरसङ्क्रान्तविमानभङ्ग्या भुजोद्धृतक्ष्माभृदिवेक्ष्यमाणः ॥४६॥

अन्वयः

 निजवंशजानां भोगाय धरित्रीं वैपुल्यविशेषभाजं कर्तु केयूरसङ्क्रान्तविमानभङ्ग्या भुजोद्धृतक्ष्माभृत् इव ईक्ष्यमाणः ( विधातुश्चुलुकादाविरासीदित्यन्वयः ।)