पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३४ )

किं वा बहूक्तैः पुरुहूत एष पात्रं महिम्नो यदनङ्कुशस्य ।
स्वामिन् स सर्वोऽपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः ।४३।।

अन्वयः

 वा बहूक्तैः किम् । यत् एषः पुरुहूतः अनङ्कुशस्य महिम्नः पात्रं, स्वामिन् , सः सर्वः अपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः (अस्ति)।

व्याख्या

 वाऽथवा बहून्युक्तानि कथितानि ते बहुकथनैः किं, किं प्रयोजनम् न किमपीत्यर्थः । यदिति वाक्यार्थपरामर्शकः । एष सम्मुखस्थः पुरुहूत इन्द्र 'इन्द्रो मरुत्वान्मघवा विडौजाः पाकशासनः। वृद्धश्रवाः सुनाशीरः पुरुहूतः पुरन्दरः' इत्यमरः । नास्त्यङ्कुशः प्रतिबन्धको यस्य तस्याऽप्रतिहतस्य महिम्नो महत्त्वस्य पात्रं भाजनमस्तीत्यर्थः । हे स्वामित् हे निग्रहानुग्रहसमर्थं ब्रह्मन् स सर्वोऽपि शिरोधृतानां मस्तकोपरि धारितानां सेवाया रजांसि धूलिकणानि सेवासम्बन्धिरजांस्यर्चनीयधूलिकणानीत्यर्थः, त्वत्पादयोस्तव चरणयोस्सेवारहजांसि तेषां प्रभावः प्रतापः कार्यमित्यर्थः, अस्ति ।

चक्वलकमर्थात् कलापकम्। शब्दोऽयं कलापकार्थे कश्मीरे रूढः।

भाषा

 अथवा, अधिक कहने से क्या लाभ । हे स्वामिन् यह मै इन्द्र जो असीम महिमा का पात्र हुआ हूं, यह सब सिर पर धारण की हुई आपकी चरण सेवा कि धूलि का ही प्रताप है ।

 (जहा चार श्लोको में अर्थ की पूर्ति होती है उसे कलापक कहते है । कश्मीर में कलापफ को चषकलक कहते हैं ।)


छन्दोबद्धपदं पद्यं तेन मुक्तेन मुक्तकम् ।

द्वाभ्यान्तु युग्मकं सदा नितक त्रिभिरिष्यते ॥

कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम् ।

अत्र पञ्चभिरिति न्यूनसंख्या व्यवच्छेदः। पञ्चभिः पञ्चाधिकैश्चेत्यर्थः ।

संदानितक विशेषक तिलक वा ।