पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

( ३१ )

देकर केवल चन्द्र में दिखाई देती थी जैसे चन्दन हटा लिये जाने पर भी होरसे • पर चन्दन की आभ दिखाई पड़ती ही है ।

सन्ध्यासमाधौ भगवाँस्थितोऽथ शक्रेण बद्धाञ्जलिना प्रणम्य ।
विज्ञापितः शेखरपारिजातद्विरेफनादद्विगुर्णैर्वचोभिः ॥।३६॥

अन्वयः

 अथ सन्ध्यासमाधौ स्थितः भगवान् बद्धाञ्जलिना शक्रेण प्रणम्य शेखरपारिजातद्विरेफ़नादद्विगुणैः वचोभिः विज्ञापितः ।

व्याख्या

 अथाऽनन्तरं मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्यैष्वयो अय' इत्यमरः । सन्ध्या समाधी सन्ध्याकालिकध्यानयोगे स्थितो लग्नो भगवान ब्रह्मा बद्धोऽञ्जलिर्यस्य तेन कृताञ्जलिना शक्रेणेन्द्रेण " प्रणम्य नमस्कृत्य शेखरे शिरसि शिरोभूषणख्यो यः पारिजातो देवकुसुमविशेषस्तस्मिन्ये द्विरेफा भ्रमराः 'द्विरेफपुष्पलिङभङ्गषट्पद-भ्रमरालयः' इत्यमरः । तेषा नादेन झङ्कारेण द्विगुणैर्द्विगुणीभूतैरुपचीयमानैर्वचोभिर्वचनार्विज्ञापितो निवेदितः ।

भाषा

 इस के अनन्तर सन्ध्याकाल के ध्यान में मग्न ब्रह्मा जी को इन्द्र ने हाथ जोड़कर प्रणाम कर के, अपने मस्तक पर शोभा के लिये धारण किये हुए पारिजात के फूलो पर गूँजने वाले भौरो की झङ्कार से प्रतिध्वनित, दूने ऊँचे स्वर में निवेदन किया ।

 इतः परं शक्रश्चतुर्भिः श्लोकैः स्वयमैश्वर्यं निरूपयन् ब्रह्माणं स्तौति-

आस्ते यदैरावणवारणस्य मदाबुसङ्गान्मिलितालिमाला ।
साम्राज्यलचमोजयतोरणाभे दन्तद्वये वन्दनमालिकेव ॥४०॥

अन्वयः

 यत् ऐरावणवारणस्य साम्राज्यलक्ष्मीजयतोरणाभे दन्तद्वये मदाम्बु सङ्गात् मिलितालिमादा वन्दनमालिका इव आस्ते । ( अत्र यच्छब्दो